________________
सर्ग १२ श्लो० १०० - १०१] सौभाग्यम्
श्रीभिर्जगन्मूर्धविधूननीभिचैत्येऽत्र वैचित्र्यदिदृक्षयेव । रूप्याचलोऽनल्पतनुः समीयिवांस्तेनैक्ष्यत स्तम्भततिः सिताश्मानाम् ॥१००॥
३११
तेन सूरिणा सिताश्मनां श्वेतोपलनिर्मितानां स्तम्भानां ततिः पङ्क्तिरैक्ष्यतालोकिता । उत्प्रेक्ष्यते - अनल्पा बहव्यस्तनवो मूर्तयो यस्य तादृग्रूपो रूप्याचलः कैलासः समीयिवानिव किं समेतः । ' रजताद्रिस्तु कैलासः इति हैम्याम् । कया । जगतां त्रिभुवनानां तात्स्थ्यात्तद्व्यपदेशे सुरासुरनराणां मूर्ध्ना मस्तकानां विधूननीभिः आश्चर्यातिरेकात्कम्पयित्रभिः । 'अद्भुतकरी परमूर्धविधूननी -' इति नैषधे । श्रीभिः शोभाभिः कृत्वा अत्र चैत्ये अस्मिन्विमलमन्त्रिनिर्मापितप्रासादे वैचित्र्यस्य विचित्रताया अथ वा विशिष्टानां जवाज्जनाश्चर्यविधायिनां चित्राणां पाञ्चालिकाप्रमुखाणां नानास्वरूपाणामाश्चर्याणामालेख्यानां वा दिदृक्षया व्रष्टुमिच्छया दृग्गोचरीकरणाकाङ्क्षया ॥
શ્લાકા
સ્તંભે ( થાંભલા) ની પંકિત જોઈ, ત્રણે જગતને શેલાને લઈને આ ચૈત્યમાં અનેક પ્રકારની સૂક્ષ્મ રૂપ ધારણ કરી જાણે કૈલાસ પર્યંત
વળી આચાયે શ્વેત આરસના આશ્ચય કારી ( મસ્તકને ધૂણાવે તેવી) વિચિત્રતા જેવાની ઈચ્છાથી અનેક भाव्यो न होय ! ॥ १०० ॥
महातिप्राप्तमृतिं निजं पतिं समीक्ष्य कामं श्वशुरं जिन श्रितः । स्मरावरोधः किमु यत्र पुत्रिकाचयोऽमुना लोचनगोचरीकृतः ॥ १०१ ॥
अमुना वाचंयमचक्रिणा यत्र विमलवसतौ पुत्रिकाणां पाञ्चालिकानां प्रचयेो व्रजो लोचनयोश्चक्षुषोर्गोचरीकृतां लक्ष्यो विहितः । दृष्ट इत्यर्थः । उत्प्रेक्ष्यते - जिन नारायणं श्वशुरं स्वभर्तुः पितरं श्रितः सेवमानः पार्श्वे स्थितः स्मरावरोधः मदनान्तःपुरं किमु । अथ च विधवकुसुमध्वजयुवतीव्रजः स्वस्यात्मनो जिनभक्तत्वात् श्राद्धत्वात्तस्य सुर मोक्षलक्षणाभीष्टदायकं देवं जिन तीर्थकरं श्रितः । ' स्मरावरोधभ्रममुद्वहन्ती' इति नैषधे । किं कृत्वा । महाव्रती शंभुः तस्मात्प्राप्ता अधिगता मृतिर्मरणं येन तादृशं निजमात्मीयं पतिं भर्तारं काम कंदर्प समीक्ष्य । अथ च महाव्रती जिनः स चास्मद्भर्तृघात - कस्तद्वरात्तद्वधूजन' मामपि हन्यादतो जिनं स्मरावरोधः सेवते । 'नाश्रितं वैरिणमपि हिनस्ति महान' इति श्रुतिः ||