________________
३१०
हीरसौभाग्यम्
सर्ग १२ श्लो० ९८-९९]
हरिन्मणीनिर्मितसनिधिद्वया सिताश्मसोपानततिर्व्यलोक्यत । उपान्तविस्मेरवनीव जाह्नवी जिनं भजन्ती विजिता समज्ञया ॥ ९८॥
हरिन्मणीभिर्मरकतरत्ननिर्मित रचितं संनिधिद्वयं पार्श्वयोर्द्वयं यस्यास्तादृशी सिता श्मनां स्फाटिकोपलानां सोपानततिरारोहणश्रेणी तेन गुरुणा व्यलोक्यत ददृशे । उत्प्रेक्ष्यतेसमझया स्वकीर्त्या येन विजिता पराभूता सती जिन मारुदेव भगवन्तं भजन्ती सेवमाना जाह्नवी गनेव । किंभूता जाह्नवी । उपान्तयोद्धयोः समीपपार्श्वयोः विस्मेरा विनिद्रा वनी कानन यस्याः । 'स्ववनीसंप्रवदत्पिकापि का' इति नैषधे ॥
શ્લેકાર્થ
મરકતમણી અને રત્ન વડે જેનાં બને પડખાં રચાયાં છે, તેવી સ્ફટિક રનની સોપાન શ્રેણિ (પગથિયાંની પંકિત) આચાર્યો જોઈ; સોપાન પંક્તિવડે પરાભવ પામેલી અને જેની બન્ને બાજુએ વિકસિત વન છે તેવી ગંગા નદી, જાણે ઇષભદેવ ભગવંતની ઉપાસના કરવા માટે આવી ન હોય ! ! ૯૮
व्रतीश्वरेणैक्ष्यत तोरणावली जिनालयद्वारि शुभस्य शंसिनी। जिनाधिभर्तुः किमु मुक्तिकन्यया कृतेयमुद्वाहविधौ विरचिना ॥ ९९ ॥
- व्रतीश्वरेण वाचयमविभुना सरिणा जिनालयस्य विमलवसते रि द्वारदेशे तोरणावली वन्दनमालिकामाला ऐक्ष्यत निरीक्षता । किंभूता । शुभस्य शंसिनी प्रेक्षकाणां कल्याणकारिणी । अथ वा । शुभानि मङ्गलानि शंसति कथयति इत्येवंशीला दृप्टमात्राप्यह कल्याणानि करोमीति कथयित्रीत्यर्थः । उत्प्रेक्ष्यते-जिनाधिभर्तुर्युगादिदेवस्य मुक्तिकन्यया सिद्धिकुमार्या सहोद्वाहविधौ पाणिग्रहणकरणसमये विरञ्चिना विश्वसृजा किमियं कृता सवा तोरणधोरणी विनिर्मितेष ॥
શ્લોકાથી
આચાર્યે વિમલવસહીન દ્વારા પ્રદેશમાં શુભસંદેશને કહેનારી એવી તે રણની પંક્તિ જોઈ. તે જાણે શ્રી યુગાદિદેવને મુક્તિરૂપી કન્યાની સાથે પાણિગ્રહણ કરવાના સમયે ब्रह्मा मा तारहित मनाची - जय ! ॥ ६ ॥