________________
सर्ग १२ श्लो ०९६-९७ ] हीरसौभाग्यम्
विमलाभिधीसखः पुरो ददृशे तेन हयं विभूषयन् । किमु सार्थनिंनंसया शतक्रतुरुच्चैःश्रवसं समीयिवान् ॥ ९६ ॥
३०९
तेन मुनीन्द्रेण त्रिमल इत्यभिधा नाम यस्य तादृशो धीर्बुद्धिरेव सखा सहायो मित्र वा यस्य सः धीसखश्चतुर्बुद्धिनिधानः प्रधानः ददृशे दृग्गोचरीकृतः । किं कुर्वन् । हयं श्वेताश्मतुरङ्गम विभूषयन् आरोहणेन शोभां लम्भयन् । उत्प्रेक्ष्यते - उच्चैःश्रवोनामान निजवाजिनमारुद्यः सार्थस्यार्बुदाचलाधिष्ठाय वृषभध्वजजिनस्य निनंसया नन्तुमिच्छया समीयिवानागतः शतक्रतुरिन्द्र इव ॥
શ્લેાકાથ
ત્યારપછી હીરવિજયસૂરિએ શ્વેત અશ્વ ઉપર આરૂઢ થયેલા વિમલ બુદ્ધિવાળા વિમલશાહ મંત્રીને જોયા. પેાતાના ઉચ્ચશ્રવસ અશ્વ ઉપર આરૂઢ થઈને શ્રી ઋષભદેવ ભગવંતને નમસ્કાર કરવા માટે જાણે ઇન્દ્ર આવ્યા ન હોય ! ॥ ૯૬ li
प्रभुतोपगतः प्रभुभक्तिभरैः स्पृहयन्निव सिद्धिपदाय पुनः ।
विमल : सचिवोऽञ्जलिशालिशयद्वितयः स्थितवान्भगवत्पुरतः ॥ ९७ ॥
अञ्जलिना ललाटपट्टे मुकुलीकरणेन योजनेन वा शालि शोभनशील शयद्वितयं पाणियुगलं यस्य तादृशो विमलनामा सचिवः प्रधानः भगवत्पुरतः युगादिजिनपतेः पुरस्तादग्रे संमुखः स्थितवान् तिष्ठति स्म । उत्प्रेक्ष्यते - प्रभोर्भगवतो भक्तीनां प्राग्जन्म'जनितसेवा सक्तीनां भरैरतिशयैः प्रभुतां रोमदेशाधीशद्वादशपतिसाहिप्रमुखानेकराजकपराजयनपूर्वक भूलोकाधिपत्यमुपगतः संप्राप्तोऽपि पुनः सिद्धिपदाय अष्टमहासिद्धिप्रधानस्थानाय मोक्षनगराय वा स्पृहयन् कामयमान इव वाञ्छन्निव । 'स्पृहेरीप्सितः । स्पृहेरिष्ठः संप्रदानसंज्ञः स्यात् । हरये स्पृहयति । वेति केचित् । गोपी हरिं स्पृहयति । ईप्सित इति किम् । पुष्पेभ्यो वनं स्पृहयति' इति प्रक्रियाकौमुद्यम् ||
શ્લેાકા
વિમલશાહમ ́ત્રી એ હાથ જોડી અંજલિ કરીને ભગવંતની આગળ રહેલા છે; જાણે ભકિતપૂર્ણ હૃદયથી ભગવતની આગળ સિદ્ધિપદની વાંછા કરતા ન હાય ! ॥ ૯૭ ૫