SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ ३०४ हीरसौभाग्यम् [सर्ग १२ श्लो० ८७-८९ કલેકાર્થ કત હસ્તિથી અને અશ્વથી યુકત, સુધા જેવી ઉજજવલ કાંતિથી શેભતી તેમજ મધ્યમાં જિનબિંબવડે પવિત્ર બનેલી જાણે ક્ષીરસમુદ્રની સખી ન હોય, તેવી વિમલવસહીને હીરવિજયસૂરિએ જોઈ, અર્થાત્ વિમલશાહ મંત્રીએ શુદ્ધ આરસનાં પાષાણુથી બંધાવેલે જિન પ્રસાદ જે. ! ૮૭ कुक्षिसात्कृतमवेक्ष्य सिंहिकासू नुना स्वपतिशीतदीधितिम् ॥ चैत्यकैतववतीव कौमुदी तद्भयादिह समेत्य तस्थुषी ॥ ८८ ॥ चैत्यं विमलवसतिरेव कैतवं कपट विद्यते यस्याः सा चैत्यकैतववती कौमुदी चन्द्रज्योत्स्ना तस्य स्वभर्तृराहोर्भयादिहार्बुदगिरौ समेत्यागत्य तस्थुषी स्थितवतीव । किं कृत्वा । स्वस्यात्मनः पतिं शीतदीधितिं चन्द्रमसं सिंहिकामनुना केसरिणा स्वर्भानुना वा कुक्षिसात्कृतं भक्षितं गिलित वा अवेक्ष्य दृष्ट्वा ॥ શ્લોકાઈ પિતાનાં પતિ ચન્દ્રને રાહુથી ગ્રસ્ત થયેલ જોઈને ચન્દ્રક્રિયા જલ્સા જાણે રાહુના ભયથી વિમલવસતીનાં હાને આવીને રહી ન હોય ! ! ૮૮ છે चैत्यमूर्धविधुकान्तनिष्पतत्पाथसि प्रतिमितेनिभाद्विधुः । लक्ष्मपङ्कमपनेतुमात्मनः स्नाति दुग्धजलधेर्धिया किमु ॥ ८९ ॥ विधुश्चन्द्रमा दुग्धजलधेः क्षीरसमुद्रस्य धिया बुद्धया । भ्रमेणेत्यर्थः । उत्प्रेक्ष्यतेआत्मनः स्वस्य मण्डलहृदयवर्तिन लक्ष्म लाञ्छनमेव पङकं कदममपनेतु क्षालयितुं किमु स्नाति स्नानं करोतीव । कस्मात् । चैत्यस्य विमलवसतेमूर्धनि शिखरोपरितनभागे संदृब्धेभ्यः संकल्पितेभ्यो विधुकान्तेभ्यश्चन्द्रकान्तरत्नेभ्यो निष्पतति चन्द्रकिरणसंपर्काद्विनिःसरति पाथसि पयःपूरे प्रतिमितेः प्रतिबिम्बस्य निभायाजात् ॥
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy