________________
हीरसौभाग्यम्
सर्ग १२ श्लो० ८६-८७ ]
वा एताः पताकाः किं मां जयिष्यन्तीति गर्वात् हुं करोतीत्येवं शीला सिद्धसिन्धुः स्वर्गङ्गा नभःपद्धतौ गगनमार्गे स्पर्धेया संहर्षेण वहति प्रसरति । 'स्रोतः सारस्वत' वहत्' इति चम्पूकथायाम् । ‘वहत्प्रवर्तमान' प्रसरच्च' इति तट्टिप्पनके । किं कृत्वा । निक्वणन्त्यः शब्दायमानाः किंकिण्यः क्षुद्रघण्टिका घुघुरिका यासु । तथा मारुतैः पवनैः आन्दोलि तास्तरलीकृताः । तथा इन्दुश्चन्द्रः कुन्दानि मुचकुन्दकुसुमानि तद्वदुज्ज्वला धवलाः येषां चैत्यानांपताकावैजयन्तीर्विलोक्य दृष्ट्वा ॥ इत्यर्बुदाचलसर्व प्रासादवर्णनम् ||
શ્લાકા
ઘઉંટડીઓનાં અવાજ કરતી, પવનવડે ફરકી રહેલી ચંદ્ર અને મચકુંદ જેવી ઉજજવલ જિનપ્રાસાદોની ધજા જોઈને આકાશમાર્ગે ચાલતી આકાશગંગા “આ મારી આગળ શું માત્ર છે !” આ પ્રકારની સ્પર્ધા કરતી જાણે કલેાલાનાં કાલાહલ શબ્દોથી હુંકાર
કરતી ન હાય ! ! ૮૬૫
अथ पृथक् पृथक्प्रासादवर्णनम् -
वैमली वसतिं व्रतीशिता दुग्धसिन्धुवयसीमिवैक्षत । श्वेतदन्तितुरगान्वितां सुधाशालिनीं जिनपवित्रितान्तराम् ॥ ८७ ॥
३०३
व्रती शिता मुनिनायकः सूरिः विमलस्येयं वैमलीया सा चासौ वसतिश्च विमलमन्त्रि निर्मापितादिदेवप्रासादमैक्षत पश्यति स्म । उत्प्रेक्ष्यते - दुग्धसिन्धोः क्षीरसमुद्रस्य वयस सखीमिव । क्षीरसमुद्रसाम्यं दर्शयति । किंभूतां वसतिं वयसीं च । श्वेता धवला आरासोपलमयत्वात् तथा दन्तिना गजा विभलमूर्ति पृष्टवर्तिनः तथा तुरगो विमलसविधाध्यासितोऽश्वः । अन्ये वा पक्षे श्वेतदन्ती ऐरावणः श्वेततुरग उच्चैश्रवाः । यदुक्तम्- 'पयानिलीनाभ्रमुकामुकावली, ' तथा 'सहस्रमुच्चैः क्षवसां वहन्निव इति । एतद्वयमपि नैषधे । एतेन क्षीरार्णवे ऐरावणोच्चैःश्रवसां बाहुल्यं प्रतिपादितम् । ततोऽत्राप्यैरावतोश्चैःश्रवसश्चेत्युक्ते न कोऽपि दोषः । तैरन्वितां कलिताम् । पुनः किंभूताम् । सुधया पक्वचूर्णकलेपेन अमृतेन च शालते शोभते इत्येवंशीलाम । पुनः किंभूताम् । जिनैर्विविधप्रतिमारूपतीर्थकृद्भिः अथवा जिनेन मूलनायकभृतेन ऋषभदेवेन कृष्णेन तस्य समुद्रशायित्वेन पवित्रितं पावनीकृतम् । अथ वा पवि वज्र त्रायते पाणौ लालयति रक्षतीति पवित्रः शक्रः तीर्थे कदाचिद्वन्दनागातः अथ च कदाचिदनुजमि लनागतः पुरंदरः विष्णुशक्रौ संजातौ सम्यक् प्रादुभृतौ अस्मिन् तादृशमन्तरं मध्यं यस्याः ॥