________________
[सर्ग १२ श्लो० ८३-८४ ]
हीरसौभाग्यम्
मन्दमन्दं चलन्नर्बुदोर्वीधराधित्यकामध्यरोहद्यतीनां पतिः । शंभुसौधैः पवित्रीकृतोर्वोतलां रूप्यशैलस्य चूलामिवेच्छावसुः ॥ ८३ ॥
यतीनां श्रमणानां पति: स्वामी हीरमृरिर्मन्दमन्दं शनैः शनैः । 'गगनमवजगाहे मन्द मृगाङ्कः' इति चम्पूकथायाम् । चलन्संचरन्नर्बुदोर्वीधरस्याधित्यकामूलभूमिकामध्यरो हदारूढवान् संप्राप्तः। क इव । इच्छावसुरिव । यथा धनदः कैलाशशैलस्य चूलामधिरोहति । किंभूतामधित्यकां चूलां च । शंभूनां वृषभादिचतुर्विशतितीर्थकृतां सौधैः यद्यपि भरतकारितः सिंहनिषद्यानामा एक एव प्रासादः । तथापि सुरविद्याधरराजभिरन्येऽपि तत्पाचे प्रासादाः कारिताः संभाव्यन्ते शत्रुजयरैवताचलादिवत् । अथ यद्येक एव तदा सर्वोत्तमत्वात्पूज्यत्वाद्वा बहुवचनम् । पक्षे शंभोरीश्वरस्य सौधैः पत्नीपुत्रप्रमथादिगणानां परिजनपरिवाराणां मन्दिरैः कृत्वा पवित्रीकृत पावनं निर्मितमुर्वीतल भूमीपीठं यस्याः सा ॥
ઇશ્વરની પત્ની, પુત્રગણ આદિ પરિજનનાં મંદિરેથી પવિત્ર થયેલી કેલાસપર્વતની ચૂલિકા ઉપર અથવા ભરત ચક્રવર્તીએ નિર્માણ કરેલા ઋષભ આદિ ચોવીશ તીર્થકરનાં પ્રાસાદથી જેની ભૂપીઠ પવિત્ર બનેલી છે તેવા કલાસ પર્વતની ચૂલિકા ઉપર કુબેર આરોહણ કરે તેમ મંદ મંદ ચાલતા આચાર્ય શ્રી હીરવિજયસૂરિએ અબુંદ પર્વતની ભૂમિ ઉપર આરહણ કર્યું ! ! ૮૩ ા
पुण्यंभाजां हृदाकृष्टिमन्त्रानिव श्रीमद हद्गृहानिर्जितस्वर्ग्रहान् । अर्बुदश्रीवतंसायमानान्प्रभुर्नेत्रपत्त्रैरसौ प्रीतचेताः पपौ ॥ ८४ ॥
असौ प्रभु रसूरिः श्रीमतः शोभाशालिनः अर्हदगृहान् जिनप्रासादान् । अथ वा श्री त्रिभुवनाधिपत्यलक्ष्मीविद्यते । येषाम् तादृशानामहतां तीर्थकृतां गृहान् विहारान् नेत्रपत्त्रैर्लोचनदलैः नयनपुटकैर्वा पपौ सादरमवलोकयति स्म । किंभूतः । प्रीत मोदं प्राप्त चेतो मनो यस्य । किंभूतान् श्रीमदर्हदगृहान् । निर्जितानि निजजगज्जैववैभवैरभिभूतानि स्वगृहाणि वैजयन्तादिस्वर्गगेहानि विमानानि वा यैः। पुनः किंभूतान् । अर्बुदस्य हिमाद्रिनन्दन गिरेः श्रिया लक्ष्म्या अवतंसायमानान् शिरःशेखरवदाचरतः । उत्प्रेक्ष्यते-पुण्यभाजां सुकृतिनां साधूनां हृदां मानसानामाकृष्टेराकर्षणस्य मन्त्रानिव ॥