SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ २० हीरसौभाग्यम् सर्ग ९ श्लो० ४६-४७] क्ष्यते-भूभृतां धरणीधराणां गहरे महत्कन्दरे कोटरे किमु तपस्यन्ति तीव्रतमं मुक्तानपान तपःकष्टं कुर्वन्तीव । कथम् । गुप्तं छन्नं यथा स्यात्तथा केनाप्यज्ञातम् । कया । पुनर्विती. यवारमभ्युदयस्य चन्द्रचण्डरुचिप्रदीपप्रमुखद्विषत्पराभावुकविषयाद्वैतस्फूर्तिमत्तया आशया स्पृहया वाञ्छया । के इव । तापसा इव । यथा परिव्राजकाः समग्रशात्रवक्षत्रगोत्रचित्रासनैकालम्भविष्णुनृपादिपदवीकामनया तपस्तन्वते ॥ इत्यन्धकारगमनम् ।। શ્લેકાર્થ જેમ તાપસે રાજ્યલક્ષ્મીની કામનાથી તીવ્ર તપ તપે તેમ સૂર્ય ચન્દ્ર આદિ શત્રુઓનાં કિરણોરૂપી પ્રહારોથી જર્જરિત (કૃશ) બનેલા ઘુવડ વગેરેનાં પરિવારો જાણે . પર્વતની ગુફામાં ગુપ્તપણે તપસ્યા કરતાં રહ્યાં ન હોય ! ૪૬ अथ विभातप्राया शर्वरी उच्यते-- विद्राणोत्पलदृक्क्षीणशुक्रा भ्रश्यत्पयोधरा । म्लानास्येन्दुस्त्यक्ततारमुक्ता वृद्धव शर्वरी ॥४७॥ शर्वरी रात्रिवृद्धव जरती स्त्रीवासीत् । किंभूता निशा वृद्धा च । विद्राणे संकुचिते निमीलिते गते वा उत्पलानि कुवलयानि एव तत्तुल्ये च दृशौ नयने यस्याः। पुनः किंभूता। क्षीणोऽस्तमितप्रायः । विभातेऽपि कदाचित् शुक्रो निरीक्ष्यते । ततोऽस्तमितप्रायः अस्तमितो वादृग्गोचरीभूतः शुक्रः ग्रहविशेषो यस्याः । पक्षे । गर्भाधानाभावात्क्षीणं विनष्टं शुक्र वीर्य यस्याम् । पुनः किंभूता । पश्यन्तोऽविरलीभवन्तः । पाश्चात्यरात्रौ प्रायो वर्दलानि भवन्ति सूर्योदये च यान्ति । अत एव चम्पूकथायां प्रातवर्णने प्रोक्तं सूर्यविशेषणम्-- 'करपरामृष्टपयोधरे' इति । पयोधरा मेघा अभ्ररूपा यस्याम् । पक्षे । भ्रश्यन्तावधःपतन्तौ पयोधरौ स्तनौ यस्याः । पुनः किंभूता । म्लानो विच्छायीभूतो गतचन्द्रिकत्वावृद्धत्वाच्च आस्येन्दुर्वदनसदृशः वक्त्रमेव चन्द्रो यस्याः । पुनः किंभूता । त्यक्ता उज्झितास्तारा एव उज्ज्वला वा मुक्ता मुक्ताफलानि यया । प्रायो वृद्धानां भूषणपरिधानं शोभावन्न दृश्यते । यदुक्तम्--'मा ज्ञातुरिय पल्हाणिइ परकष्पडइपडप्प । एतन्नेअसुहामणां बुट्टीकानिधडुक्क ॥ इति प्राकृतवाक्यात् ।। શ્લોકાઈ રાત્રિ વૃદ્ધા સ્ત્રી જેવી બનીતે આ પ્રમાણે- રાત્રિનાં કુવલયરૂપી નેત્રે સંકુચિત બની ગયા છે. વૃદ્ધ સ્ત્રીનાં નેત્ર સંકુચિત બની ગયેલા હોય છે. રાત્રિમાં શુક્ર આદિ તારાઓ ક્ષણપ્રાયઃ બની ગયા છે. ગર્ભાધાનને અભાવ હોવાથી વૃદ્ધાશ્રીનું વીર્યક્ષીણ પ્રાયઃ બની ગયું હોય છે. રાત્રિમાં વાદળે નષ્ટ થઈ ગયા છે. વૃદ્ધાસ્ત્રીના સ્તન નીચા
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy