SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ सर्ग ९ श्लो ० ४४-४६] हीरसौभाग्यम् तारकास्तारास्तारकापथे नक्षत्रवमनि आकाशे क्षणादृश्यमाना एव स्वल्पकालादेव व्यलीयन्त विलय क्षयं लभन्ते स्म । उत्प्रेक्ष्यते--दिग्गजानामाशामातङ्गानामैरावतादिहरिकुञ्जराणों जलावगाहेन सलिलक्रीडाकरणमन्जनादिविधिना उत्पन्ना उद्भूताः स्वःसिन्धोरा शतरङ्गिण्याः । गगनगडाया इत्यर्थः। बदबूदाः पानीयस्थासका इव । 'जलपंपाटो' इति प्रसिद्धाः । बुदबुदा हि स्वल्पकालावस्यायिनः स्युः । यदुक्तम्--'सब्भरागजलबुदबुदउवमे जीविएअ जलबिन्दुचञ्चले । जुच्चणेयनइवेगसंनिहे यावजीव किमयं न बुज्झसि ॥' इति वैराग्यशतके ॥ इति शुक्रादिमहत्तारास्तः ॥ લોકાર્થ આકાશમાં રહેલા તારાઓ ક્ષણમાત્રમાં વિલીન થઈ ગયા. તે જાણે દિગજેની જલક્રીડાથી ઉત્પન્ન થયેલા આકાશગંગાના જલપરપોટા ન હોય! (કહ્યું છે કે સ્વજનને નેહ જલપરપોટા સમાન, જિવત જલબિંદુ સમાન, તેમજ યુવાની નદીનાં પૂર સમાન છે તો તે જીવ, તું કેમ બેધ પામતો નથી !) ઇજા आगामिनो गवां पत्युः प्रातः सेनापतेः पुरः। कांदिशीका इवानश्यन्नन्धकारविरोधिनः ॥४५॥ आगमिष्यतीत्येवंशीलस्य आगामिनो गगनमण्डले समागन्तुकस्य गवां किरणानां भृमीना च पत्युः स्वामिनां सूर्यस्य पार्थिवस्य प्रातः प्रभातामिधानस्य दिनाननरूपस्य वा सेनापतेरनीकिनीनायकस्य पुरः पुरस्तादग्रे । उत्प्रेक्ष्यते--कांदिशीका भयद्रुता इव । अन्धकारविरोधिनः संतमससंपन्नसंदोहा अनश्यन्पलायांचक्रिरे । मित्रो ध्वान्तारातिरब्जांशुहस्तः इति हैम्याम् । एकस्य शत्रुत्वे द्वावपि परस्परं शात्रवौ भवतः इति ॥ શ્લોકાઈ ભવિષ્યમાં આવનારા સૂર્યના સેનાપતિ પ્રભાતથી જાણે ભયભીત બન્યા ન હોય તેમ અંધકારરૂપી શત્રુઓ ક્ષણમાત્રમાં પલાયન થઈ ગયા ૪૫ - गहरे भूभृतां गुप्तं तामसास्तापसा इव । कृशाः किमु तपस्यन्ति पुनरभ्युदयाशया ॥४६॥ तमसां समूहास्तामसाः अत्र समूहार्थे ऽण् । तिमिरप्रकराः कोशिका वा । 'तामसास्तिग्मरोचिषः' इति वीतरागस्तवे । कृशाः परिपन्थिपाथोजिनीपतिनिपतदृढतरकरनिकरप्रसभप्रहारजर्जरीभवद्भूघनोद्भवद्भरिचिन्तातिशयवशतो दुर्बलीभूताः सन्तः । उत्प्रे
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy