________________
सौभाग्यम्
[ सर्ग ९ श्लो० ४२-४४
ताराः प्रातर्दृश्यमानाः गुरुशुक्रादिमहत्तारका अर्णवे समुद्रे । उत्प्रेक्ष्यते - तं चन्द्रमन्वमज्जन् विधुपृष्ठे बुडुरिव कृत्वा । तारापतिं स्वस्वामिन शशिनं प्रेक्ष्य समीक्ष्य । अय गुरोस्तारकः, अयं शुक्रवारकः इति लोकोक्त्यापि तारकास्तेषां तारकाणां स्वामित्वं तु चन्द्रमस एव । यतः - 'तारकराद किरीटः, इति नैवधे । 'अथ वा गह अद्वासीतडवी संतारकोट्टिकोडी | छासठिसहस्सनवसयपणहत्तरीपगससिभिन्न " ॥ इति वचनात् ग्रहपतित्वमपि । किं च । यावान्परिवारः सूर्यस्य तावान्परिवारश्चन्द्रस्येति जीवाभिगमे । किंभूतः । प्रत्यूष प्रभात एव द्विषन् द्वेषी शत्रुस्तेन मुषिता गृहीता छलदर्शिना स्वावसरं छलं च प्राप्य हठात्सर्वाप्यादत्ता श्रीर्यस्य अत एवाय चिन्तय पीडया वा दुःखातिरेकत्रपया अब्धौ समुद्रे डितम् ॥
१८
લેાકા
પ્રભાતરૂપી શત્રુવડે ગ્રહણ કરાયેલી પાતાની લક્ષ્મીને જોઇને દુઃખથી સમુદ્રમાં અપપાત કરેલા પેાતાના સ્વામી ચન્દ્રને જોઈને ગુરૂ શુક્ર આદિ મેટા તારાએ પણ સમુદ્રમાં ડુબી ગયા ન હેાય.! ૫૪રા
निशाशनायितेनाभ्रपथे तारकतन्दुलाः । दिनाननशकुन्तेन शङ्के कुक्षिगतीकृताः ॥४३॥
निशया राज्या कृत्वा निशायां वा चरणाभावाददर्शना जातास्त्यस्येत्यशनायितो बुभुक्षितः तेन दिनाननं प्रभातं तदेव शकुन्तः पक्षी तेन शकुन्तेन अहमेव शके वितकामि उत्प्रेक्षे वा । अभ्रपथे मेघमार्गे गगनवर्त्मनि वा तारकतन्दुलास्तारका एवात्यौज्ज्वल्यात्तन्दुलास्तुषनिर्मुक्तकलमा; । 'प्रथममुपहृत्यार्थ' तारैरखण्डिततन्दुलैः' इति नैषधे तारकास्तन्दुलीकृताः । कुक्षौ उदरे गताः । ' कृतौ' इति विप्रत्यये कुक्षिगतीकृताः । 'इव बहुरूपकशालभञ्जिका मुखचन्द्रेषु कलङ्करङ्कवः । यदनेकपसौधकन्धरा हरिभिः कुक्षिगतीकृता इव ||" इति नैषधे ॥
લેાકા
મને જાણે એમ લાગે છે કે રાત્રિમાં ક્ષુધાતુર બનેલા પ્રભાતરૂપી પક્ષીએ આકાશમાંરહેલા તારાએરૂપી અક્ષતાનું ભક્ષગુ કર્યું ન હોય ! ૫૪૩૫
दिग्गजेन्द्रावगाहेनोत्पन्नाः स्वः सिन्धुबुद्बुदाः । क्षणादिव व्यलीयन्त तारकास्तारकापथे ॥ ४४ ॥