________________
[सर्ग ९ श्लो० ४०-४२
हीरसौभाग्यम्
तारका अर्थादश्विन्यादिनक्षत्राणि दाक्षायिण्यः सर्वाः शशिप्रियाः। हेमाचार्येण नामसु कश्चिद्विशेषः प्रोक्तो नास्ति । किं च 'भकनीनिकयोस्तारा, तारा शब्दो भे नक्षत्त्रे कनीनिकायां च । तारा एव तारका नक्षत्राणि' इति लिङ्गानुशासने । चन्द्रकरा अस्ताचलं प्रतीची. पृथ्वीधरं भेजुराश्रिताः । उत्प्रेक्ष्यते--इत्यमुना प्रकारेण उपालन्धुमुपालम्भं प्रदातुमिव । इति किम् । हे चरमाद्रे, नोऽस्माकं तारकाणां प्रियस्य प्राणनाथस्य निशीथीनीनायकस्य त्वमेव भवानेव उदयमुद्गममैश्वर्य वा दत्त्वा वितीर्य प्रतिपद्वितीययोस्तिथ्योरस्ताचले चन्द्रोदयदशनात् । तस्माद्विधोरस्ताद्रिरेवोदयाचलः । तथा प्रातर्वर्णनेऽप्युदयनाचार्येणापि प्रोक्तं यथा'उदयगिरिकुरङ्गीमृङ्गकण्डूयनेन स्वपिति सुखमिदानीमन्तरेन्दोः कुरङ्गः' इति । प्रतिपञ्चन्द्रोदयदर्शनं प्रायः सुरभिणामेव । यदुक्तम्-'प्रतिपञ्चन्द्र सुरभी नकुलो नकुलीं पयश्च कलहंसः । चित्रकवल्लीं चाषः सूक्ष्म धर्म सुधीवेत्ति ॥' इति । पुनस्त्वमेवास्तमस्तमयनं क्षयं च कथं दत्से ददासि ॥
લોકાઈ તારાઓએ પણ અસ્તાચલને આશ્રય લીધે (શા માટે) જાણે આ પ્રમાણે અસ્તાચલને ઉપાલંભ આપવા માટે તારાઓ ગયા ન હોય ! કે હે અસ્તાચલ, તું અમારા સ્વામી ચન્દ્રને ઉદય આપીને હવે અસ્ત કેમ આપે છે ! (પ્રતિપદા અને દ્વિતીયાનાં यन्द्रनी हय अस्ताय ५२ पाय छे. ॥ ४० ॥
नक्षत्रपद्धतेः प्रातभ्रंश्यन्तोऽम्बुधरादिव । क्षणाद्विलयमासेदुस्तारकाः करका इव ॥४१॥
तारका ग्रहनक्षत्त्रताराः प्रातः प्रभातसमये करका घनोपला इव क्षणान्निषममात्राद्विलय क्षयमासेदुः प्राप्नुवन्ति स्म । किं कुर्वन्तः । नक्षत्रपद्धतेराकाशात् । 'अभ्रं सुराभ्रोडुमरुत्पथोऽम्बरम्' इति हैम्याम् । भ्रश्यन्तो भ्रंशं प्राप्नुवन्तः । 'भ्रशूभ्रंश अधःपतने' दिवादिको हैमधातुपाठे । कस्मादिव । अम्बुधरादिव । यथा जलधरान्मघात्करका भ्रश्यन्त्यधः पतन्ति ॥
શ્લેકાર્થ જેમ મેઘથી ભ્રષ્ટ થઈને કરાઓ ભૂમિપર પડતાં ક્ષણમાત્રમાં વિલય પામે છે તેમ ગ્રહ, નક્ષત્ર અને તારા પ્રભાત સમયે આકાશથી ભ્રષ્ટ થઈને ક્ષણમાત્રમાં વિલય પામી ગયા. ૪ના
अाब्धिमग्नं प्रत्यूषविषता मुषितश्रियम् । तारास्तारापतिं प्रेक्ष्यान्वमज्जस्तमिवार्णवे ॥४२॥