________________
२९८
हीरसौभाग्यम्
सर्ग १२ श्लो० ७७-७९ ]
શ્લોકર્થ
અબુંદગિરિને શીતલ, મંદ અને સુરભિ પવન આચાર્યને સેવકની જેમ અનુસરો હતે. અનેક સ્થાનમાં રહેલી નદીઓને કલ્લોલિત કરતે હેવાથી શીતલ; વૃક્ષને મંદમંદ દેલન (ચંચલ) કરતો હોવાથી મંદ, અને આકાશગંગામાં કમલેની રજથી व्यात ४२. पाथी सुरक्षा-मायो ५qन ही २झो तो. ॥ ७७ ॥
कुत्रचित्तोरणस्त्रग्विलासश्रियं बिभ्रति व्योमसंचारिणः सारसाः ।
सिद्धपुर्या यियासोः पुरस्तात्प्रभोविश्वकāव मङ्गल्यमाला कृता ॥ ७८ ॥ कुत्रचित्कस्मिश्चनार्बुदशैलप्रदेशे व्योनि आकाशे संचरन्त्युड्डीयमाना गच्छन्तीत्येवशीला गगनगामिनः सारसाः पक्षिविशेषाः प्रसिद्धाः पक्षिणस्तोरणग्रजः तोरणमालाया विलासश्रियं लीलालक्ष्मी बिभ्रति धारयन्ति । उत्प्रेक्ष्यते-सिद्धिपुर्या निर्वृतिनगर्या यियासोर्गन्तुमिच्छोः प्रभोहीरसूरीन्द्रस्य पुरस्तादग्रतः विश्वका सर्ववस्तुविधायिना विधिना कृता विहिता मङ्गल्यमाला । वन्दनमालिकेव । जगत्का वा रचितेति शेषः ।।
પ્લેકાર્થ
અબુંદ પર્વતનાં કઈ પ્રદેશમાં ગગનગામી “સારસ પક્ષીઓ તરણની માલારૂપે શોભા ધારણ કરતા હતા, જાણે મુક્તિરૂપી નગરીમાં જવાની ઈચ્છાવાળા આચાર્યની આગળ બ્રહ્માએ મંગલમાલાની રચના કરી ન હોય ! ! ૭૮
क्वापि झाङ्कारिणो निर्झरान्भःप्लवाः प्लावयन्ति स्म तत्पर्वतोपत्यकाम् । सिद्धसिन्धुर्नभस्तो निरालम्बना निष्पतन्तीह क्लुप्तावलम्बा किमु ॥ ७९ ॥
क्वापि कुत्रचित्स्थाने झाङ्कार इति शब्दोऽस्त्येष्विति झाकारिणः । निर्झराणां ध्वनेाकार इति संज्ञा । यदुक्त पाण्डवचरित्रे--'झरन्निझरझाङकारी' इति । सशब्दा निझराणामम्भःप्लवाः पयःप्रवाहास्तत्पर्वतोपत्यकामधंदाचलशिखराधोभूमिकां शिखरापेक्षशेपत्यकां प्लावयन्ति स्म निर्भर भरन्ति स्म । उत्प्रेक्ष्यते-निरालम्बना निर्गताधाग अत एव नभस्तो गगनाङ्गणादालम्बनराहित्यान्निष्पतन्ती अधोभ्रश्यन्ती सती । पुनरिहार्बु दाचले क्लुप्तो निर्मितोऽवलम्ब आश्रयो यया तादृशी सिद्धसिन्धुः किमु गगनगङ्गेव । निर्झरपयसामत्यौज्वल्यागङ्गोत्प्रक्षा ॥