________________
सर्ग १२ श्लो० ७६-७७]
हीरसौभाग्यम्
२९७
लोलरोलम्बकोलाहलप्रस्तुतस्फीतकीर्तिस्तवामोदमेदस्विनी । यत्र सस्यैनताङ्गी लताविग्रहावाकिरत्कुञ्जदेवी प्रसूनैः प्रभुम् ॥ ७६ ॥
यत्रार्बुदगिरौ कुञ्जदेवी । जातावेकवचनम् । वनदेवता प्रसूनैः प्रबलपवनप्रसरप्रपतत्कुसुमोत्करैः कृत्वा त हीरसरिमवाकिरत् वर्धापयति स्म । 'अवाकिरन्वयोवृद्धास्त लाजैः पौरयोषितः' इति रघौ । किंभूता कुञ्जदेवी । लोला मकरन्दपानकृते चपला ये रोलम्बा मधुकरास्तेषां कोलाहलः गुञ्जारूपः कलकलस्तेन प्रस्तुताः प्रारब्धाः स्फीता वर्धमानाः कीर्तेर्यशसः स्तवाः स्तुतयो यया । पुनः किंभूता । आमोदेन पुष्पादिपरिमलेन प्रमोदेन वा मेदस्विनी पुष्टा प्रोदभूतपुलककोरकाकलिता। पुनः किंभूता। सस्यैः स्वफलभारेण नताङ्गी नम्रीभवत्तनुयष्टी । पुनः किंभूता । लता कुसुमितफलितवल्ली एव विग्रहः शरीर यस्याः सा॥
શ્લેકાર્થ
રસપાનલેલુપી ભ્રમરનાં ગુંજારવથી આચાર્યના પ્રસરતા યશની સ્તુતિ કરતી અને પુપની પરિમલરૂપ હર્ષથી રોમાંચિત બનેલી તથા ફૂલેવડે નમી ગયેલી અબુદગિરિની વનદેવી; લતારૂપી શરીર ધારણ કરીને જાણે પુષ્પ વડે આચાર્યને વધાવતી न डाय ! ।। ७६ ॥
यत्र कल्लोलयन्नैककल्लोलिनीर्मन्दमान्दोलयन्स्मेरदुर्वीरुहान् । स्वर्णदीपद्मपौष्पैः करम्बीकृतो गन्धवाहोऽनुगामीव त भेजिवान् ॥ ७७ ॥
गन्धवाहः । गन्ध कुसुमादीनां मृगमदादीनां वा सौरभ्यं वहते धारयतीति गन्धवाहो वायुः पुरुषविशेषणं वा । यत्र पर्वतेऽनुगामीव सेवक इव तं हीरसूरि भेजिवान सेवते स्म । वायुश्च त्रिधा वर्ण्यते-शीतो, मन्दः, सुरभिश्च । तदेव त्रैविध्यं दर्शयति । किं कुर्वन् गन्धवाहः । नैका अनेकस्थानस्थायिनीः कल्लोलिनीस्तरङ्गिणीः कल्लोलयन् स्वरंहःप्राबल्येन कल्लोलमालाकलिताः कुर्वन् । एतेन शीतलः । पुनः किंभूतः । मन्द शनैः स्मेरतो विजृम्भमाणान् । कुसुमितानित्यर्थः । उर्वीरुहान विविधवृक्षान् आन्दोलयन तरलीकुर्वाणः। एतेन मन्दः । धनगहनानोकहास्फालनेन मन्दीभूत इत्यर्थः । पुनः किंभूतः । स्वर्णद्याः पर्व तस्याभ्रंकषत्वेनात्युच्चैस्तरत्वाद्गनगङ्गायाः पद्मानां कमलानां पौष्पै रजोभिः करम्बीक्रतो व्याप्तः । एतेन सुरभिः ॥ हि० सौ० ३८