________________
-
२९४
हीरसौभाग्यम्
सर्ग १२ श्लो ० ७०-७२]
કલેકાર્થ
અબુદાચલનાં ગગનચુંબી શિખરનાં અગ્રભાગે રહેલા કિન્નરોની સાથે કિન્નરીએના વૃન્દ વડે ગવાતા મધુર ગીતને સાંભળીને વ્યાક્ષિપ્ત ચિત્તવાળા (સાંભળવામાં લીન બનેલે) થયેલ ચન્દ્રના લાંછન રૂપે રહેલે મૃગ જાણે આગળ ચાલતા ચાલતા ચંદ્રને मेह ५भारतडतो! ॥ ७० ॥
यत्र चन्द्रोदयश्च्योतदिन्दूपलप्रस्थसंस्थायुकोग्निद्रकुन्दद्रुमे । राजते राशिरिन्दिन्दिराणां सुधासागरे शेषशायीव शक्रानुजः ॥ ७१॥ .
यत्रार्बु दशैले चन्द्रस्य मृगाङकयोदयेनाभ्युद्गमेन प्रच्योतन्तः क्षरन्तोऽमृतरस स्रवन्तो ये इन्दपलाश्चन्द्रकान्तमणयस्तेषां प्रस्थ शिखर तत्र संस्थायुको वसनशीलः उद्गतत्वात्स्थायी तथा उन्निद्रो विकसितः स्मितकुसुमव्रजविशदीकृतो यः कुन्दद्रुमः तत्र इन्दिन्दिराणां भ्रमराणां राशिः समूहो राजते शोभते । क इव । इन्द्रावरज इव । यथा सुधाया उत्पत्तिस्थाने क्षीरसागरे शेषे नागाधिराजशय्यायां शेते स्वपिति इत्येवशीलः शेषशायी कृष्णः शोभते ॥
શ્લોકાથ
સુધાના ઉત્પત્તિસ્થાન રૂપ ક્ષીર સમુદ્રમાં શેષનાગની શયામાં સૂતેલા જેમ કૃષ્ણ શેભે તેમ ચંદ્રના ઉદયથી જેમાંથી અમૃત રસ ટપકી રહ્યો છે અને ચંદ્રકાંત મણીઓનાં શિખર ઉપર રહેલી વિકસિત મચકુંદ પુષ્પમાં રહેલી ભ્રમરોની રાશિ શેભે છે. . ૭૧ છે
मेरुमुख्याखिलोवींधराणामिवोपात्तसारैरसौ वेधसासृज्यत । एष निःशेषभूमीभृतां निर्जयं निर्मिमीते न चेद्वैभवैः स्वैः कुतः॥ ७२ ॥
___ मेरुः स्वर्णाचलो मुख्यः सर्वोच्चस्तरत्वात् रत्नसानुसुवर्णमयत्वाच्च प्रकृष्ट आदिमो वा मुखे आदौ भव इति व्युत्पत्त्या प्रथमो येषां तादृशानामखिलानां समप्राणामुधिराणां पर्वतानामुपात्तरुप समीपे आगत्य आत्तैः सम्बगवलोकनपूर्व संगृहीतैः सारैः सर्वातिशायिपरमाणुदलैः कृत्वा । उत्प्रेक्ष्यते-असौ अबुदाचलो वेधसा जगत्सृजा असृज्यत सृष्टो विरचित इव । एव चेन्न तर्हि एषोऽर्बुदाद्रिः स्वैरात्मीयवै भवैः शोभातिशयैः कृत्वा निर्गतः शेषोऽविष्टो येषु ते निःशेषाः समस्तास्तेषां भृमीभूतां यावजगद्गिरीणां निर्जयं नितरां जयं परिभव कुतः कस्मात्कारणानिमिमीते करोति ॥ इत्यर्बुदाचलवर्णनम् ॥