________________
[सर्ग १२ श्लो० ६९-७०
हीरसौभाग्यम्
२९३
बिभ्रतो वाहिनीर्यस्य वापिप्लवाप्लाविनीः श्रीपराभूत भूमीभृतः । तिष्ठतः क्षोणिमाक्रम्य पूषार्चिषा वेदगर्भः करोतीव नीराजनाम् ॥६९ ॥
वेदगर्भो ब्रह्मा यस्यार्बुदभूमीभूतः पूषा भास्वांस्तस्याचियोतिरथ च पूष्णो नास्तुल्यो जाज्वल्यमानत्वाःसहोऽचिनिधूमधूमध्वजस्तेन नीराजनामारात्रिकां करोतीवेत्युत्प्रेक्ष्यतेअन्यस्यापि राज्ञ आरात्रिकोत्तारणं क्रियते । यथा कस्यापि भूभृतो वेदगर्भो ब्राह्मणः अर्थात्पुरोधाः । वेदगर्भ इति साभिप्राय नाम तेन वेदमन्त्रोच्चारपूर्वक दीप्रवद्विना नीराजनां निर्मिमीते । यस्य किं कुर्वतः । क्षोणिं भूमीमण्डलमाक्रम्याधिष्ठाय सर्वात्मनाभिव्याप्य तिष्ठतः वसतः स्थितिं कुर्वतः । पुनः किंभूतस्य । वार्धीनां चतुःसमुद्राणां प्लवान वारिपूरानाप्लावयन्त्यतिक्रामन्ति आक्रामन्ति चेत्येवंशीला वाहिनीनंदी: सेनाश्च बिभ्रतः किंभूतस्य । श्रिया आत्मीयया शोभया चतुरङ्गचक्रादिवैभवैः कृत्वा पराभूता विजिताः स्वपादपद्ममधुकरीकृता भूमीभृतः पर्वता नृपाश्च येन सः॥
શ્લોકાઈ
ચાર સમુદ્રનાં પાણીના પૂરાનું આક્રમણ કરીને રહેલી નદીઓ રૂપ જેની સેના છે, પિતાની લક્ષ્મીથી પરાભવ કરીને જેણે પિતાના ચરણકમલનાં ભ્રમરરૂપે અન્ય પર્વતે રૂપ રાજાએ બનાવ્યા છે, તેમ જ સંપૂર્ણ રીતે ભૂમંડલને વ્યાપને જ રહે છે, તે અબુદ પર્વતની જાણે બ્રહ્મા સૂર્યની જાજવલ્યમાન કાંતિ વડે આરતિ કરતા ન હોય! છે ૬૯
यन्नभःसङ्गिशृङ्गाङ्गणालिङ्गिनां किंनराणां समं यौवतैर्गायताम् । गीतमाकर्ण्य रङ्कुर्मुगाङ्क तदाक्षिप्तचेता ब्रजन्नग्रतोऽखेदयत् ॥ ७० ॥
रङकुश्चन्द्रस्याङ्कमृगः अग्रतः अर्बुदाचलवङ्गाणि संत्यज्य पुरस्ताव्रजन प्रतिष्ठमानः मृगात विधुमखेदयत् महत्खेदमुत्पादयति स्म । किंभूतो रङकुः । तदाक्षिप्तचेताः तत्र किनरकृतगीते आक्षिप्त विलग्नं चेती मनोवृत्तिर्यस्य सः । किं कृत्वा । यस्यार्बुदगिरेन भसोऽम्बरस्य सङ्गो मिलनं विद्यते येषां तादृशानि श्रृङ्गाङ्गणानि शिखरोपरितनप्रदेशास्तान्यालिङ्गन्त्याश्लिष्यन्ति आश्रयन्तीत्येवंशीलास्तादृग्विधानाम् । तथा यौवतैर्युवतीनां किंनरीणां गणैः सम सार्ध गायतां स्वरसेन गान कुर्वतां किंनराणां किंपुरुषाणां गीत मधरध्वनिलयमयगेयमाकर्ण्य श्रवणपारणां प्रणीय ।