________________
सर्ग १२ श्लो ०६५-६७ ]
हीरसौभाग्यम्
લાકા
અબુદાચલ ઉપરથી ઝંપાપાત કરી રહેલા જલપ્રવાહા (ઝરણાંઓ) ના પડવાથી ઊંચે ઉછળતાં જલબિંદુએ જાણે આકાશમાં તારારૂપે બની ગયા ન હાય ! ! ૬૫૫
२९१
मित्रपुत्र्या सह स्थातुमप्यम्बरे तामुपादाय भूमेः पुनः स्वः सरित् । यद्गिरेर्वर्त्मना शालितालीमिलत्कुन्दमालाच्छलाद्गच्छती वाम्बरम् ॥ ६६ ॥
शालिनीभिः शोभनशीलाभिः तालीभिः राजतालीनामभिस्तरुविशेषैः देशैकग्रहणेन देशिनो ग्रहणम् । यथा भामाग्रहणेन सत्यतामेति । तैः सम मिलन्त्यः सङ्ग कुर्वन्त्यः एकत्रोद्गतायाः कुन्दानां विकसितकुसुमकदम्बकवलक्षीकृतमुचकुन्दपादपानां मालायाः श्रेण्याश्छलात्कपटात्खःसरिन्मन्दाकिनी यद्विरेर्यस्यार्बुदशैलस्य वर्त्मना मार्गेण भूमेः सकाशान्नभस्तलाद्भूमीमुत्तीर्य पुनस्तत्र गमनेन द्वितीयवारमम्बरमाकाशं गच्छतीव यातीव । किं कृत्वा । मित्रस्य सख्युर्भानोर्वा पुत्र्या यमुनया सह अम्बरेऽपि गगनाङ्ग णेऽपि स्थातुमेकत्र स्थितिं विधातुं यथा एकया मूर्त्या प्रयागे यमुनया सह तिष्ठामि तथा अपरयापि मृर्त्या आकाशेऽपि यमुनया सहाहं वसामीति विचिन्त्य मित्रपुत्र कालिन्दीनाम्नी सह सार्धमुपादाय गृहीत्वा ।
શ્લાકા
“એક મૂર્તિરૂપે યમુનાની સાથે પ્રયાગમાં રહું અને ખીજીમૂર્તિરૂપે આકાશમાં રહું’ આ રીતે વિચારીને એકત્ર રહેવા માટે આકાશગંગા, મિત્ર એવા સૂર્યની પુત્રી યમુનાને સાથે લઈને રાજતાલી નામનાં વૃક્ષેાની સાથે ઉગેલાં મચ પુષ્પાની માલાના બ્હાને, ગંગાનદી પૃથ્વી ઉપરથી ફરી આ પવ ત માગે આકાશમાં જાણે જતી ન હોય ! ॥ ૬૬ u
रोहिणीरागभावान्निजत्यागिनं कान्तमेणाङ्कमुत्सृज्य कोपाकुला । औषधीसंततिर्निर्मिमीतेऽनिशं तापसीवत्तपांसीव यस्मिन्गिरौ ॥ ६७ ॥
औषधीनां विधुवधूनाम् । चन्द्रस्य तत्पतित्वात् । 'रोहिणीद्विजनिशौषधीपतिः' इति हेमचन्द्रवचनात् । संततिः श्रेणिर्यस्मिन् गिरौ अर्बुदपर्वते । उत्प्रेक्ष्यते - तापसीव परिव्रा