________________
२९०
हीरसौभाग्यम्
सर्ग १२ श्लो० ६४-६५ ।।
कण्ठपीठीलुठत्पार्वणश्वेतरुक्तारकानायकोदात्तमुक्तालता । व्योम निर्भिद्य थातेन येनोच्चकैर्धार्यते भूभृतेवात्मभूषाकृते ॥ ६४ ॥
येन भूभृता अर्बुदाचलेन आत्मनः स्वशरीरस्य भूषाकृते शोभाविधानाय कण्ठपीठयां ग्रीवायाम् । यथा नैषधे–'दधदम्बुदनीलकण्ठताम्' राजमन्दिरवर्णने । कण्ठशब्देन कन्धरा । एतावता अधित्यका । पीठशब्दः स्त्रीक्लीबलिङ्गः। 'जयत्युदरनिःसरवरसरोजपीठीपठच्चतुर्मुखमुखावलीरचितसामनामस्तुतिः' इति चम्पूकथायाम् । तथा 'वंशिकवक्रोष्टिककन्यकुब्जपीठानितक्तमवहित्थम्' इति लिङ्गानुशासनेऽपि । लुठन्तः इतस्ततो भवन्तो ये पार्वणाः पूर्णिमासंबन्धी श्वेतरुक् चन्द्रमाः तथा तारकास्तारा उपलक्षणात् ग्रहनक्षत्राणि तेषां नायको मध्यमणिस्तेन युक्ता उदात्ता उदारा महाा वा। 'उदात्तनायकोपेता' इति चम्पूकथायाम् । 'उदात्तो महात्मा महाय॑श्च' इति तट्टिपनके । मुक्तालता मौक्तिकहारो ध्रियते । किमु । भूभृता किंभूतेन । व्योम गगनं निर्भिद्य अत्युच्चस्तरत्वाद्भित्त्या विदारयित्वा उच्चकैरूव यातेन संप्राप्तेनेत्यत एव कंधरायां ज्योतिश्चक्रमायातम् ॥
લેકાર્થ
રાજાની જેમ પોતાના શરીરની શોભાને માટે અબુદાચલે આકાશને ભેદીને ઊંચે ગયેલી કંધરારૂપી કંઠપીઠમાં (ગળામાં) આમ તેમ ભ્રમણ કરતા પૂર્ણિમાના ચંદ્રની ઉજજવલ કાંતિરૂપ મધ્યમણિવાળા ગ્રહ, નક્ષત્ર અને તારાઓ રૂપી મુક્તાહાર જાણે ધારણ . ध्यान जय ! ॥ ६४i
अभ्रविभ्राजियन्मेदिनीभृगुवातनिष्पातिपाथः प्रवाहोत्थितैः । उत्पतद्भिः पतद्भिर्नभःपद्धतौ बिन्दुवृन्दैरिवाभावि ताराभरैः ॥ ६५ ॥
उत्पतभिर्महत्प्रस्तरोपरि निपतनादुञ्चरुच्छलभिः। अत एव कारणान्नभ पद्धतौ गगनमार्गे पतभिर्गत्वा तिष्ठभिबिन्दुवृन्दर्जलकणनिकरैः । उत्प्रेक्ष्यते-ताराभरैः तारकनिकरैरभावि भूतमिव । शुचिजलकणा एवाकाशे तारा बभूवुः । किंभूतैबिन्दुवृन्दैः । अभ्रे नगनाङ्गणे विभ्राजिनां शोभनशीलानाम् । नभसंगतानामित्यर्थः । यन्मेदिनीभूभृगूनां यस्यार्बुदाचलस्य श्रृङ्गाणां भैरवझम्पारूपाणां वा तटानां वातेभ्यः समूहेभ्यो निष्पातिभ्यो निष्पतनशीलेभ्यः अधोनिर्गमनशीलेभ्यः पाथसां निर्झरनीराणां प्रवाहेभ्यो धाराभ्यः ऊत्थितैरुद्तैः प्रादुभूतैः ॥