________________
सर्ग १२ श्लो० ६२-६३]
हीरसौभाग्यम्
२८९
तसरांसि तेषु उपाश्रयः स्थानं यासाम । 'केलती मदनयोरुपाश्रये' इति नैषधे । उपाश्रयः स्थानं साधूनामपि प्रसिद्धम् । अत्युच्चस्तरशिखरसरसिरुहिणीनां रविणा संयोगः सुकर एवेति । पद्मिनीनामपि चन्द्रशालासंगतानाम् । 'चन्द्रशाला शिरोगृहम्' इति हैम्याम् ।।
શ્લોકાથી
જેમ કેઈ પ્રિયમિત્ર મહેલની અગાસીમાં પિતાની અનુરાગિણી એવી કામિની સાથે મિત્રને સંગમ કરાવે, તેમ અબુદાચલ, ગગનચુંબી શિખર ઉપર રહેલા સરોવરમાં જેનું સ્થાન છે તેવી વિકસિત લાલ કમલિનીને, પોતાના મિત્ર સૂર્યની સાથે જાણે હંમેશાં સંગમ शक्त न डाय ! ॥ १२ ॥
सिन्धुशैलोद्भवद्गौरवैर्दुर्वहां विभ्रतो भूतधात्री फणामण्डलैः । भोगिनां वासवस्येव विश्रान्तये निर्मितो नाभिजातेन यःक्ष्माधरः ॥ ६३॥
यः अर्बुदाचलः । उत्प्रेक्ष्यते-भोगिनां भुजंगमानां वासवस्य पुरंदरस्य शेषनागना थस्य विश्रान्तये विश्रामं दातुं नाभिजातेन प्रजापतिना ब्रह्मणा निर्मितः कृत इव । किंभूतस्य वासवस्य । सिन्धयः सर्वऽपि समुद्राः, शैलाः मेरुहिमाद्रिकैलासाचाः समस्ता अपि पर्वताः, तेभ्यः उदभवदभिरुत्पद्यमानेगौ रवै रैर्गुरुतरभरैर्दुवहां दुःखेन वोढुं शक्याम् । दुःखेन परानपेक्षत्वेन एकेन स्वयमेवासातेनोह्यते इति दुर्वहा तादृशीं भूतधात्रीं भूतानां चराचराणां गिरिसमुद्रादिमनुष्यपर्यन्तानां धरणशीलां समग्रमध्यमलोकं फणानां स्वशिरःस्फटानां मण्डलैश्चक्रवालैः कृत्वा बिभ्रतो धारयतः ।।
શ્લોકાર્થ
સર્વે નદીઓ અને સમસ્ત પર્વતના અતિભારથી દુઃખપૂર્વક વહન થઈ શકે તેવા ચરાચર પદાર્થોને ધારણ કરતા પૃથ્વીને, ફણાઓના સમૂહથી ધારણ કરતા નાગેન્દ્ર શેષ નાગને વિશ્રાંતિ આપવા માટે જાણે બ્રહ્માએ આ અબુદગિરિ બનાવ્યા ન હોય ! ૩
हि० सौ० ३७