SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २८८ हीरसौभाग्यम् सर्ग १२ श्लो०६१-६२ ] अर्जुनानां ककुभद्रुमाणां मेरुपक्षे स्वर्णानां च श्रियं शोभां दधातीति दधः । पुनः किंभूतः । मानां विलासागताङ्गनायुतमनुष्याणां पक्षे अमर्त्यानां स्वाङ्गनासंगतकिंनरसिद्धगन्धर्वादिदेवानां मालाभिः श्रेणिभिः स्फुरन्त्यः शोभमानाः कंदरा गुहा यस्य । पुनः किंमूतः। भद्रः श्रेष्ठरथवा कल्याणकलितैः कदाचित्केऽपि तान्न खण्डयन्ति तादृशैः सालैः पादपैर्देवदारुभिर्वा उल्लसन्नुल्लासंप्राप्नुवन् । मेरुपक्षे-भद्रसालनाम्रा मन्दरोपत्यकावर्तिना वनेन च शोभमानः । पुनः किंभूतः । ऋक्षाणां भल्लूकानां महत्के शावृताङ्गानां 'रीछ' इति लोके प्रसिद्धानां वन्यस्वापदानाम् । मेरुपक्षे-ऋक्षाणां नक्षत्राणाम् । भूः स्थानम् । 'नक्षत्रभूः क्षत्रकुलप्रसूतेयक्तो नभोगैः खल भोगभाजः। सुजातरूपोऽपि न याति यस्य समानतां कांचन काञ्चनाद्रिः॥ इति चम्पूकथायाम् ॥ શ્લેકાર્થ જેમ મેરૂપર્વત સ્વર્ગને ધારણ કરે છે, તેમ તેની સાથેની સ્પર્ધાથી અબુદાચલ કઈ પ્રદેશમાં નગરને ધારણ કરે છે. અબુંદાગિરિ, કકુભ નામનાં વૃક્ષોની શોભાને ધારણ કરનારો છે, મેરૂ સુવર્ણની શોભાને ધારણ કરનાર છે. અબુંદાગિરિ કીડાથે અંગનાઓ સહિત આવેલા પુરુષની શ્રેણીથી શેભાયમાન ગુફાઓવાળે છે. મેરુપર્વત કીડાથે ભાઓ સહિત આવેલા દેવોની શ્રેણીઓથી શોભતી ગુફાઓવાળે છે. અબુંદાગિરિ કઈ પણ સમયે છેદાય નહીં તેવા પ્રકારના દેવદારૂ આદિ વૃક્ષથી ઉલ્લાસ પામે છે, મેરૂપર્વત ભદ્રશાલ વનવડે શોભે છે. અબુદાચલ રીં છે આદિ શ્વાદેનાં સ્થાનભૂત છે, મેરૂ પર્વત નક્ષત્રોનાં સ્થાન રૂપ છે. આ રીતે અબુંદાગિરિ મેરૂ સાથે જાણે સ્પર્ધા ધારણ કરે ન હોય ! ! ૬૧ છે अम्बरालिङ्गिश्चङ्गावलीपल्वलोपाश्रयाः स्मेरदम्भोजिनी रागिणीः । योऽभिकेनाभ्रपान्थेन साकं सदा मित्रवत्कारयामासिवान्संगमम् ॥२॥ योऽर्बुदोऽद्रिमित्रवत्सखेव रागिणीः शोणा अनुरक्ताश्च स्मेरन्तीविकसन्तीः अनुरागातिरेकात्सुखीभवन्तीश्चाम्भोजिनीः पद्मिनीस्त्रियः कमलिनीश्च । अभिकेन कामुकेन । 'कामुकः कमिता कम्नोऽनुकः कामयिताभिक.' इति हैम्याम् । तथा 'प्रत्यङ्गमस्यामभिकेन रक्षा ने मघोनेव निजास्वमस्ति' इति नैषधे । अनुरागिणा अभ्रपान्थेन भानना सार्क सदा प्रतिदिनं संगम संयोगं कारयामासिवान निर्मापयति स्म । प्रिय मित्रोऽपि कयाचिदनरागिण्या पद्मिन्या कामिन्या समं स्वमित्र संगमयति । किंभूताः । अम्बरमाकाशमालिङ्गन्ति संस्पृशन्तीत्येवंशीलानां श्रृङ्गाणां शिखराणामावली श्रेणी तस्यां ये पल्वला अखा.
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy