SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २८६ aritभाग्यम् [ सर्ग १२ श्लो० ५९-५९ कुन्दरुंनीलकण्ठः पुनश्चन्द्रचूडः शिवः सिंहयानाङ्कितः । वात वेल्लल्लताक्लृप्तलास्यः सरिद्योऽनुयातीव दिग्वाससं किं दिवा ॥ ५९ ॥ योऽर्बुदगिरिः दिवा दिवसं दिश आशा एव वासांसि वस्त्राणि यस्यासौ दिग्वासा ईश्वरः तमनुयात्यनुकरोति सदृशीभवतीव । 'दिक्कृत्तिवासा भवनीललोहितौ' इति है - म्याम् । द्वापि विशिनष्टि - किंलक्षणः । कुन्दानां विकसितकुसुमसंततिसितीकृत मुचकुन्दद्रुमाणां रुक् कान्तिर्यत्र । पक्षे कुन्दवदुज्ज्वला रुक् कायकान्तिर्यस्य । पुनः किंभूतः । नीरमुग्भिः उन्नमन्नीरदैः कृत्वा नीलः श्यामलीभूतः कण्ठः उपत्यकाभागः शिरः शिखरादधस्तनप्रदेशो यस्य । पक्षे मेघवन्नीलः विषविषमानल ज्वालाज्वलितत्वात्कालः कण्ठो गलं यस्य । ‘दधदभ्बुदनीलकण्ठताम्' इति नैषधे । अर्थः पूर्ववत् । पुनः किंभूतः । चन्द्रो विधुरत्युचैस्तरत्वात् चूडायामग्रभागे अभ्रंकषशिखरोपरितनप्रदेशे यस्य । पक्षे चूडायां जटाजूटे यस्य पुनः किंभूतः । शिवो निरुपद्रवः परैर्ग्रहीतुमशक्यः शिवनामा च । पुनः किंलक्षणः । सिंहानां केसरिणां यानानि गमनागमनानि तैरङ्कितः कलितः । पक्षे सिंहयानया पार्वत्या अतिचिह्नितः । तस्या अर्धाङ्गत्वात् । 'प्रसह्य चेतो हरतोऽर्धशंभो:' इति नैषधे । अर्धशंमोरीश्वरस्य शरीरार्धघटनया इत्यर्धशंभुः । पुनः किंभूतः । वातैः पवनैः वेल्लन्त्यश्चश्ञ्चलीभवन्त्यो या लताः वल्लयस्ता मिस्तद्वद्वा क्लृप्ती लास्यं नाटकं येन । महानटत्वान्नट्यप्रियत्वाच्च । पुनः किंभूतः । सरिन्निझं ररूपा अत्युज्ज्वलत्वात्स्वः सरिद्गङ्गा यस्य । पक्षे निर्झर - तुल्याः गिरीशत्वात् गिरीशो हिमाद्रिरपि । तत्र निर्झररूपैव गता यत्र । अथवा सरति गच्छति विस्तरतीत्येवंशीला व्यवस्थित विकल्पत्वाद्दीर्घत्वाभावस्तादृशी नित्यवाहिनी स्वर्वाहिनी यस्मिन् । तथा शैलोऽपि अत्युच्चत्वादतिविस्तारत्वात्पातालमूलत्वाच्च दिग्वासा दशसु दिक्षु वासो वसनं अथवा दशापि दिशो वासांसि वस्त्राणि यस्य सः । 'शिरःस्वःसरित' इति वा पाठः । तत्र शिरसि अत्युच्चस्तरत्वान्मस्तके स्वः सरित् गगनगङ्गा यस्य । तथा च वस्तुपालवसतिप्रशस्तावर्बुदाद्रिवर्णने - ' मन्दाकिनी घनजटे दधदुत्तमाङ्गे' इति ॥ શ્લેાકાથ અબુદગિરિ દિવસે ઈશ્વર (શંકર) નું અનુકરણ કરતા હતા. પર્યંત વિકસિત મચકુંદ પુષ્પાની કાંતિવાળા છે. ઈશ્વર વિકસિત મચકુર્દ પુષ્પસમાન શરીરની ઉજજવલ ક્રાંતિવાળા છે. પત-મેઘાથી જેના શિખર ઉપરના ભાગ શ્યામ અનેલેા છે. વિષપાન કરવાથી ઈશ્વરના કંઠે શ્યામ અનેલા છે. પવતના શિખરપર ચૂડામણિ રૂપે ચંદ્ર રહેલે છે. ઈશ્વરે પેાતાની જટામાં ચંદ્રને ધારણ કરેલેા છે. પવત-નિરૂપદ્રવી સ્થાનવાળા છે ઈશ્વર શિવ એવા નામ વાળા છે.પવ તમાં કેશરી સિ હાનું ગમના ગમન છે ઈશ્ર્વર સિંહૈયાના એટલે કે
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy