________________
सर्ग १२ श्लो ० ५७-५८ ] हीरसौभाग्यम्
कापि श्रृङ्गे विनीले तमालैः शशी यस्य चूडामणीवत्कचानां चये कापि शोणाश्मङ्ग पुनर्भानुमान्प्राग्गरेः सानुनी वोदयँल्लक्ष्यते ॥५७॥
२८५
यस्यार्बुदाग्रे क्वापि कुत्रापि स्थाने तमालैः समुल्लसद्वहलदलमण्डलसच्छवितापिच्छपादपैर्विनीले अतीव श्यामलीभूते श्रृङ्गे शिखरे शशी चन्द्रमाः कचानां चये कामिनी - शपाशे चूडामणीवत् चूडारत्नमिव लक्ष्यते ज्ञायते वा । पुनरपरेऽर्थे क्वापि कुत्रापि प्रदेशे शोणाश्मभिः परागमणिभिर्निर्मिते शृङ्गे कूटे भानुमान् सहस्ररश्मिः प्राग्गरेरुदयाचलस्य सानुनी प्रस्थे उदयन्नभ्युद्गमं लभमान इव लक्ष्यते निरीक्ष्यते ॥
શ્લેાકા
અબુદાચલના કાઈ સ્થાનમાં અતિનીલ એવાં તમાલનાં વૃક્ષાથી શ્યામ બનેલાં શિખરામાં રહેલા ચન્દ્ર જાણે કામિનીના કેશપાશમાં રહેલા ચૂડામિણ (ખેર) ન હોય તેવા જણાતા હતા. વળી કોઈ પ્રદેશમાં પદ્મરાગમણિએથી નિર્માણ કરાયેલા શિખર ઉપર રહેલે સૂર્યાં જાણે ઉદયાચલનાં શિખર પર ઉગતા ન હોય તેવા જણાતા હતા ૫ ૫૭ ॥
मौलिलीलायमानामृतांशुक्षर निर्झराम्भो प्रवाहस्वरूपैरसौ । सातपत्रस्फुरच्चामरैर्भूभृतां राजभावं विभतींव भूमीधरः ॥ ५८॥
असौ भूमीधरः अर्बुदाचलः सहातपत्रेण वर्तन्ते यानि तानि सातपत्राणि । तथा स्फुरन्ति इतस्ततः प्रसरन्ति चञ्चलीभवन्ति यानि चामराणि रोमगुच्छानि तैः कृत्वा । उत्प्रेक्ष्यते - भूभृतां सर्वपर्वतानां राजभाव स्वामित्वमाधिपत्यं वा बिभर्ति धारयतीव । किंभूतः | मौलौ शिरः शिखरोपरि लीलायमानो लीलया स्ववशेनाचरन् प्रवर्तमानः प्रचलन्वा अमृतांशुः शीतदीधितिः । तथा क्षरतां शिखरान्तरालेभ्यो निःसरतां निर्झराणामम्भसां पानीयानां प्रवाहा धारास्ता एवं स्वरुपमात्मा येषां तैः ॥
લાકા
શિખર ઉપર લીલારૂપે રહેલા ચન્દ્રરૂપ છત્રવડે અને ઝરણાંનાં પાણીના પ્રવાહ સ્વરૂપ ચામરા વડે અČદાચલ, જાણે સ`પતામાં સાવભૌમતા (ચક્રવાતી'પણુ) ધારણ કરતા ન હાય ! ૫ ૫૮ ॥