________________
२८४
हीरसौभाग्यम्
[सर्ग १२ श्लो० ५५-५६
यो गिरिस्तुङ्गिमश्रीभिरन्यान्पराभूय श्रृङ्गाग्ररङ्गत्पयोदोपधेः । छत्रमाधत्त मायुरमुर्वीधराधीशितुर्नन्दनस्तं जयावं किमु ॥५५॥
य उर्वीधराणां पर्वतानां भूपालानां चाधीशितुर्भर्तु यकस्य भर्तुहिमाचलस्य चक्र वर्तिनो वा नन्दनःपुत्रः । 'गौरीवरश्वशुरभूधरसंभवोऽयमस्त्यर्बुदः ककुदमद्रिकदम्बकस्य मन्दाकिनीधनजटे दधदुत्तमाओं यः शालकः शशिभृतोऽभिनयं करोति ॥' इति गुर्जरेश्वरपुरोहितवस्तुपालवयस्यसोमेश्वरभट्टविरचितलूणिगवसतिपट्टिकोत्कीर्णवस्तुपालप्रशस्तावबुंदाहिमादिपुत्रत्वं प्रकटमास्ते । एतावतार्थेन अर्बुदनामा गिरिः कश्चित्सार्वभौमतनुजन्मा च । उत्प्रेक्ष्यते-श्रृङ्गाग्रे शिखरोपरितनप्रदेशे रङ्गतां चरतां पयोदानां सजलजलघराणामुपधेर्धनघटाकपटात् तन्जयाङ्गं तेषां पर्वतानां भृपानां च जयस्य पराभवनस्य अङ्घ चिह्न किमु मायूरं मयूरपिच्छसंबन्धि छत्रमातपत्रमिवाधत्ते बिभर्ति स्म । किं कृत्वा । तुङ्गिनः उच्चत्वस्य महिम्नः पराक्रमस्य करितुरगादिपरिवारस्य जात्यादेर्वा महत्त्वस्य श्रीभिर्लक्ष्मीभिभवैर्वा कृत्वा अन्यान्परान गिरीन्नराधिपान्वा पराभूय विजित्य खवशीकृत्य वा ॥
લોકાઈ
પર્વતના અધિપતિ હિમાચલના પુત્ર અબુદાચલે (આબુ), પિતાની ઊંચાઈની શેભાથી બીજા પર્વતોને પરાભવ કરીને. શિખરની ટોચે કુરાયમાન મેઘોનાં બહાને જાણે જયસૂચક મયૂરપીંછનું છત્ર ધારણ કર્યું ન હોય ! ૫૫
अध्वरोद्धः सुधाधामचण्डद्युतोविन्ध्यधात्रीधरस्येव संस्पर्धया ।
श्रृङ्गलेखाभिरभ्रंकषाभिर्नभःपद्धतिं रूद्धवानर्बुदोर्वीधरः ॥५६॥ अर्बुदाभिधान उर्वीधरः शैलः अभ्रमाकाशं कषन्ति विलिखन्ति धृष्यन्तीति । 'कष विलेखने' इत्ययं धातुः । अभ्रंकषास्ताभिर्गगनमण्डलोल्लेखिनीभिः शृङ्गलेखाभिः शिखरराजीभिः कृत्वा नभ-पद्धतिं व्योममागं रुद्धवानात्मना रुणद्धि स्म । उत्प्रेक्ष्यते-सुधाधामा चन्द्रः, श्चण्डद्युत्सूर्यः, तयोरध्वनो मार्गस्य रोद्धः रोधविधातुर्विन्ध्यधात्रीधरस्य विन्ध्याचलस्य संस्पर्धया संहर्षेणेव असूययेव ॥
શ્લેકાર્થ
અબુદાચલનાં ગગનચુંબી શિખરએ આકાશમાર્ગને અવરોધ કર્યો છે, જાણે તે ચન્દ્ર સૂર્યને અવરોધ કરનારા એવા વિધ્યાચલ પર્વતની સાથે સ્પર્ધા કરતા ન હોય ! ! ૫૬ .