________________
[सर्ग १२ श्लो० ५३-५४
हीरसौभाग्यम्
२८३
उत्पथे प्रस्थितांस्तन्वतश्चापलं तत्र सूरिः किरातान्परानप्यसौ । सत्पथेऽतिष्ठिपत्सत्त्वरक्षाव्रतै रश्मिभिः शूकलान्सादिवद्वाजिनः ॥५३॥
असौ हीरसूरिस्तत्र शिरोत्तरानामग्रामे परानन्यानपि किरातान् भिल्लान् सत्त्वानां जन्तूनां रक्षा दया अहिंसा तदादिमैः सैव प्रथमा येषु तादृशैव्रतैर्विविधनियमैः कृत्वा सत्पथे शोभनमार्गे अतिष्ठिपत्स्थापयति स्म। किंवत् । सादिवत् । यथा तुरगाणां दूषणभूषणलक्षणप्रस्थापनरक्षणनर्तनधौरितादिगतिकारापणादिकलाकुशलः सादी अश्ववारः। अश्वारोहे चाश्ववारः सादी च तुरगी च सः' इति हैम्याम् । शकलान्दुविनीतान् । 'दुर्विनीतस्तु शूकलः' इत्यपि हैम्याम् । रश्मिभिः वल्गाकशादिरज्जुभिः कृत्वा सत्पथे सर्वजनातिवाहिते वर्त्मनि स्थापयति । किंलक्षणान् किरातान् । उत्पथे हिंसादिविधाने दुष्ठाध्वनि मार्गादितरस्थाने वा प्रस्थितान्प्रवर्तमानान्प्रचलित्तान् । पुनः किंभूतान् । चापलं द्यूतमांसमदिरावेश्यापापधिचौर्यपराङनागमनाचनेकदर्व्यसनेषु चञ्चलतां लौल्यं चक्रपदस्थापनगमनादि च तन्वतः प्रकुर्वतः आद्रियमाणान्विस्तारयतश्च ॥ इत्यर्जुनपल्लीपतितत्सेवकानां नियमदानम् ॥
લોકાથ જેમ ઘોડેસ્વાર વક્રિશિક્ષિત અશ્વોને ચાબુકવડે સન્માર્ગે લાવે તેમ હીરવિજયસૂરિએ તે શિત્તરા ગામના ઉન્માર્ગે ચાલનારા દુર્વ્યસની બીજા પણ ભિલલેકેને જીવની રક્ષારૂપ અહિંસા આદિ તેના દાનવડે સન્માર્ગમાં સ્થાપિત કર્યા. પ૩ છે
सूरिशीतांशुरापृच्छय भिल्लाधिपं संप्रणिन्ये पुरस्तादथ प्रस्थितिम् । तावदग्रे ददर्शाबुदोर्बीधरं विन्ध्यमभ्येतमेतं विनन्तु किमु ॥ ५४ ॥
अथार्जुनादीनां नियमदानानन्तरं सरिशीतांशु रसूरिचन्द्रः भिल्लाधिपमर्जुनं किरातराजमापृच्छय प्रश्नयित्वा पुरस्तादग्रे प्रस्थितिं प्रस्थानं गमनम् । प्रयाणमित्यर्थः । संप्र. णिन्ये करोति स्म । प्रभुर्भट्टारकस्तावदने पुरतः अर्बुदनामानमुर्वीधरं पर्वतं ददर्शलोचनगोचरीकरोति स्म । उत्प्रेक्ष्यते-विन्ध्यं जलबालकापरपर्यायं शैलम् । 'विन्ध्यस्तु जलबासकः' इति हैम्याम् । एतं सूरिं विनन्तुं विशेषेण नमस्कर्तुमभ्येत संमुखमागतमिव ॥
શ્લેકાર્થ ત્યારપછી આચાર્યોમાં ચન્દ્રસમાન હીરવિજયસૂરિએ પલ્લી પતિને પૂછીને ત્યાંથી આગળ પ્રયાણ કર્યું. ત્યાંથી આગળ ચાલતાં અનુક્રમે “અબુંદી નામના પર્વતને જો. જાણે તે પર્વત સૂરીશ્વરને નમસ્કાર કરવા માટે સન્મુખ આવ્યું ન હોય ! છે ૫૪