________________
२८२
हीरसौभाग्यम्
सर्ग १२ श्लो ० ५१-५२]
देशनाम्भोदधारां सुधाया इव ज्येष्ठजामि मुनीन्द्रस्य पीत्वादरात् । भिल्लभर्तुर्जजम्भे मनःकानने बोधिफुल्लल्लताश्लेषिहर्षद्रमः ॥ ५१ ॥
भिल्लभर्तुरर्जुननाम्नो भिल्लानां शबराणां भर्तु यकस्य पल्लीपतेर्मना मानसमेव काननं वनं तत्र बोधिः सम्यक्त्वमेव फुल्लन्ती विकसन्ती लता वल्ली तया आश्लेष आलिङ्गनमस्त्यस्य एतादृशो हर्षद्रुमः प्रमोदपादपः प्रादुर्भवति स्म । किं कृत्वा । मुनीन्द्रस्य हीरसूरे शना धर्मकथा सैव अम्भोदधारा मेघपयोवृष्टिस्तामादरादेकाग्रचित्ततया पीत्वा निपीय सादरं श्रुत्वा । उत्प्रेक्ष्यते-सुधायाः पीयूषस्य ज्येष्ठजामि वृद्धभगिनीमिव ॥
લેકાર્થ
સુધાની મોટી ભગિની સમાન આચાર્યની ધર્મદેશનારૂપી અમૃતધારાનું આદરપૂર્વક પાન કરીને, પલ્લીપતિ અર્જુનનાં મનરૂપી વનમાં બધિરૂપી વિકસિત લતાથી આલિંગિત થયેલો હર્ષરૂપી વૃક્ષ જાણે પ્રગટ થયે ન હેય ! ૫૧ છે.
वर्णयामः किमस्यामृतस्राविणीं बिभ्रतो भारती वजसरीन्द्रवत् । वङ्कचूलो यथा धर्मघोषेण यद्येन रौद्रोऽपि भिल्लप्रभुर्बोधितः ॥ ५२ ॥
अस्य हीरसूरेः किं वर्णयामः किं किं स्तुतिगोचरीकुर्मः । अस्य किं कुर्वतः । वज्रसूरीन्द्ववद्रज्रस्वामिनाम्नः आचार्यपुरंदरस्येव अमृतस्राविणीं सुधारसोद्गारिणीम् । पीयूषवर्षिणीमित्यर्थः । भारती वाणी वाग्विलासं बिभ्रतो धारयतः । यत्कारणाद्येन भगवता रौद्रोऽप्यतिक्रूरोऽपि भिल्लप्रभुः पुलिन्दपतिरर्जुनः बोधितः बोधिबीजं प्रापितः । केनेव । यथा धर्मघोषेण सूरिचन्द्रेण चण्डोऽपि वङकचुलनामा राजपुत्रीपल्लीपतिः प्रतिबोधितः । कतिचिनियमान ग्राहितौ द्वावपीत्यर्थः ।।
કાર્થ
હીરવિજયસૂરિનું શું શું વર્ણન કરીએ ? જેમ “ધર્મશેષ” નામના આચાર્યો વંકચૂલ પલીપતિને પ્રતિબંધ આપ્યું હતું, તેમ વાસ્વામીના જેવી આચાર્યની સુધા વરસતી વાણીનું પાન કરતા અતિક્ર એ પણ અર્જુન પલ્લી પતિ પ્રતિબંધ પાપે. પર છે