________________
सर्ग १२ श्लो० ४९-५०]
हीरसौभाग्यम्
२८१
जंगम सार्वभौमं किमुर्वीभृतां सरिशीतांशुमायान्तमालोक्य तम् । अर्जुनाम्भोजनेत्रास्तदघ्रिद्वयं नेमुरानन्दसान्द्रीभवन्मानसाः ॥४९॥
अर्जुननाम्नः पल्लीपतेरम्भोजनेत्रा नलिननयनाः कान्तास्तस्य हीरमृरेरध्रिवयं चरणयुगल नेमुः प्रणमन्ति स्म । किंभूताः । आनन्देन प्रमोदेन कृत्वा सान्द्रीभवन्ति निबिडानि जायमानानि मानसानि मनांसि यासाम् । किं कृत्वा । सरिष्वाचायषु ज्योतिश्चक्रायमानेषु मध्ये शीतांशु सुधाकरं चन्द्रमायान्तमात्ममन्दिरेषु समागच्छन्तमालोक्य स्वनयनयो. !चरीकृत्य । दृष्ट्वेत्यर्थः । उत्प्रेक्ष्यते-जंगमं संचरन्तं वसुधाविहरणशीलमुर्वीभृतां पर्वतानां सार्वभौमं चक्रवर्तिनमिव । मेरुगिरिमिव ।
કાથ પહેલી પતિની સ્ત્રીઓ જાણે જંગમ મેરૂપર્વત ન હોય, તેવા આચાર્યને જોઈને અત્યંત હર્ષિત થઈ, અને સૂરીશ્વરનાં ચરણકમલે નમસ્કાર કર્યા. ૪
कामिनीभिः किराताधिभर्तुस्ततो मौक्तिकौघैरवाकीर्यत श्रीप्रभुः । सोऽप्यवैश्वस्त्यलक्ष्मीमिवानश्वरीं स्वेन ताभ्यो ददौ धर्मलाभाशिषम् ॥ ५० ॥
ततो वन्दनानन्तरं किरातानां पुलिन्द्राणामधिभर्तुः स्वामिनः अर्जुनस्य कामिनीभिः कान्ताभिः मौक्तिकौधैर्मुक्ताफलमण्डलैः श्रीप्रमुः श्रीमान हीरविजयसरिः अवाकीर्यत वर्धाप्यते स्म । पुनर्वर्धापनानन्तरं सोऽपि श्रीप्रभुः स्वेनात्ममुखेन ताभ्यः किरातेन्द्रकामिनीभ्यः धर्मलाभमेवाशिष मङ्गलशंसनमाशीर्वादं ददौ दत्तवान् । उत्प्रेक्ष्यते-अनश्वरी शाश्वतीमवैश्वस्त्यस्य अर्थात्तासामेवार्जुननारीणामवैधव्यस्य लक्ष्मीमिव । 'विश्वस्ता विधवा समे' इति हैम्याम् । तथा 'नलात्स्ववैश्वस्त्यमनाप्तुमानता' इति नैषधे ॥
શ્લોકાર્થ વંદન કર્યા પછી અર્જુનની પ્રિયાઓએ મતીઓના સમૂહથી સૂરીશ્વરજીને વધાવ્યા ત્યારપછી તે સ્ત્રીઓને આચાર્યો “ધર્મલાભના આશીર્વાદ આપ્યા. તે આશીર્વાદ જાણે અર્જુનની એની શાશ્વત અવૈધવ્યરૂપી લમી (સૌભાગ્યલક્ષમી) ન હોય ! . ૫૦
हि० सौ० ३६