________________
सर्ग १२ श्लो० ४६-४७]
दन्तीनामागच्छन्तीनां तदम्भोजदृशां नागनिकेतननितम्बिनीनां बिभ्रम विशेषेण भ्रान्ति कुर्वतः सृजन्तीरिव । एतद्दीर्घिकावारिवर्त्मना नागलोकात्कथंचिवभूमण्डलालोकन कुतूहला cristते वा निर्गता नागाङ्गना इवेति भ्रमः ॥
भा
२७९
Àાકાથ
પલ્લીપતિની કોઈ સ્ત્રી ક્રીડાવાવમાં જેલક્રીડા કરતી, ડૂબવાના બહાને જાણે નાગકન્યાઆને જીતવા માટે જતી ન હાય ! અથવા ભૂમંડળનું કૌતુક જોવા માટે વાવડીનાં રસ્તે નાગદેકમાંથી બહાર નીકળતી, દ્રષ્ટિમાં ભ્રમ પેદા કરતી જાણે નાગકન્યા
न
! ॥ ४६ ॥
भास्वतः कान्तिवद्वारुणी रागिणीः शालिपत्त्रावली: शालिशाखा इव । नन्दनानन्दिनीर्मन्दरोर्वीरिव प्रीणयन्तीर्मनः साधुगोष्ठीरिव ॥ ४७ ॥
काश्चित्किरातीः । वारुणी मदिरा तत्र विषये तत्पाने रागः अस्त्यासामिति रागिणीः । 'काश्चित्कादम्बरीमधुपानमदघूर्णितद्दशः' इति चम्पूकथायां । भिल्लीनामपि मदिरापानं दृश्यते । किंवत् । कान्तिवत् । यथा भास्वतः सहम्मरश्मेः कान्तयो दीप्तयः वारुण्यां वरुणदिकपालस्य इयं दिग्वारुणी पश्चिमा दिकू तस्यां रागिण्यः । पश्चिमायां समेतस्य सायं मार्तण्डमण्डलस्य मरीचयो रागरञ्जिताः सरागा भवन्ति । राग आसक्तिररुणिमा च । पुनः किंभूताः । शान्ते शोभन्ते इत्येवंशीलाः शालिन्यः पत्त्रावल्यः पत्त्रलताः यासाम् । का इव । शालिशाखा इव । यथा वृक्षाणां शिखाः शोभनशीलाः पत्त्राणां पर्णा नामावल्यः श्रेणयोः यासु तादृश्यो भवन्ति । पुनः किंभूताः । नन्दनैनिजाङ्गजैः पुत्रैरानन्दः प्रमोदः अस्त्यासाम् । का इव । मन्दरोर्वीरिव । यथा मेरुभूमयः नन्दननामवनेनानन्ददायिन्यः ताः । जिनशासने मन्दरो मेरुरुच्यते । यथा भक्तामरस्तवे - किं मन्दराद्रिशिखरं चलितं कदाचित्' इति । यथा स्नातस्य स्तुतौ ' मन्दररत्नशैलशिखरे जन्मा भिषेकः कृतः' इति । मन्दरेषु पञ्चसु मेरुषु मेरुषु रत्नं लक्षयोजनप्रमाणत्वात्सर्वद्वीपसमुद्राणां मध्यवर्तित्वान्नाभिस्थानकत्वाच्च रत्नम् । अपरे चत्वारो मेरवः चतुरशीतियोज - • नामाना: । जिनजन्माभिषेको मेरुं विनान्यत्र न स्यादिति । तथा सिद्धान्तेष्वपि मन्दरस्मरणं लभते । ‘पच्चयस्स' – इत्यादि । शैवशासनेषु तु मन्दर इन्द्रकलशैलः । अत्र तु जैनमतानुसारेणैव मेरुः । पुनः किं कुर्वतीः । मनः तद्विभ्रमविलासक्रीडादिविलोककानामन्तःकरणं प्रीणयन्तीस्तोषयन्तीः । का इव । साधुगोष्ठीरिव । यथा साधूनां संसारमुमु