________________
२७८
हीरसौभाग्यम्
सर्ग १२ श्लो. ४५-४६]
नयन्तीः । उड्डाययन्तीरित्यर्थः । का इव । भीमवाहा इव । कुन्तीतनुजन्मत्रिकापेक्षजातीया मध्यमपाण्डवस्य युधिष्ठिरानुजन्मनो वृकोदरभुजा यथा बकानिति बकनामानं राक्षसम् । बहुत्व तु लङ्काधिपतिराक्षसराजत्वात् । तथा धार्तराष्ट्रान धृतराष्ट्रस्यापत्यानि धृतराष्ट्रस्य पितृव्यस्य शत दुर्योधनदुःशासनप्रमुखान पुत्रान् जीवनाज्जीवितव्यात् विश्लेषयन्तीवियोजयन्तीः । निघ्नतीरित्यर्थः । पुनः काश्चित्क्षपासु हरिद्रासु । 'हरिद्रा काञ्चनी पीता निशाख्या वरवर्णिनी' इति हैम्याम् । रात्रिसर्वनामभिरर्थे सति हरिद्वैवोच्यते । यथा चम्पॅकथायाम्-'वररजनीकरकान्ते' इति । 'निशानभः सदृशे मज्जनगृहे । किंलक्षणा । वरा । विशिष्टविज्ञानापेता रजनीकरा हरिद्रोद्वर्तनादिकारकाः पुमांसस्तैः कान्ते प्रधाने । निशानभसि किंलक्षणे । वरः सर्वकलासंपूर्णों रजनीकरश्चन्द्रस्तेन मनाझे' इति चम्पूटिप्पनके । रागो वपुरुद्वर्तनादिना आसत्तिविद्यते यासाम् । तथा उत्पलानि कुवलयान्याकाअन्तीत्येवंशीलाः । पुनः क्लप्तं रचित कृत कीलालस्य पानीयस्य पानं याभिः । किंवत ।' राक्षसीवत् । यथा निशाचर्यः राक्षस्यः क्षपायां रजन्यां रागोऽस्त्यासाम् । रात्रिचरत्वात । तथा उत्प्राबल्येन पलं मांसमाकाङ्कति सामस्त्येन वाञ्छतीत्येवंशीलाः । पलादत्वात् । पुनः निर्मितं कीलालस्य रुधिरस्य पानं याभिः । असृक्पत्वात् । 'रात्रिचरो रात्रिचरः पलादः कीनाशरक्षोनिकसात्मजाश्च । क्रव्यात्कर्बुरनैर्ऋतामृक्पः' इति हैम्याम् । 'कीलाल रुधिरे नीरे' इत्यनेकार्थः ।।
કાર્થ
જેમ ભીમે દુર્યોધન આદિ ધૃતરાષ્ટ્રના એ પુત્રને જીવનથી મુક્ત કર્યા હતા, તેમ કેઈ બિલસ્ત્રી ગૃહવાવડીમાંથી બગલા આદિ પક્ષીઓને જીવન-જલથી વિગ કરાવતી હતી ! વળી, જેમ રાક્ષસી રાત્રિની રાગિણી, માંસભક્ષિણી અને લેહી પીનારી હોય તેમ રાત્રિ રાગિણી કમલેને ઈચ્છતી અને મિલેચિત પીણાને પીતી જિલીઓ शालती ती. ॥ ४५ ॥
केलिवापीपयोमजनव्याजतो नागनारीविजेतु वजन्तीरिव । नागगेहोपसीदत्तदम्भोजरग्विनम कुर्वतीनिःसरन्तीः पुनः ॥ ४६॥
काश्चित्किरातेशितः कान्ताः केलिवापीषु क्रीडाकृते या गृहोपवनदीर्घिकास्तासु पयसि स्वतन्त्रसलिलान्तरालखेलनसमये पयसि पानीये मज्जनानां क्रीडारसाश्रूडनानां दनुप्रादुर्भवनव्यतिकरे वा सलिलाबहिनिर्गच्छन्तीः सतीः नागगेहाभुजंगभवनादुपसी