________________
२७६
__हीरसौभाग्यम्
[सर्ग १२ श्लो० ४१-४३
આ કમલથી પણ અધિક શોભાને ધારણ કરનારી બનું !” અથવા “કમલનિવાસિની લક્ષ્મીદેવીથી અધિક સૌંદર્યવતી બનું! છે ૪૧
निर्जितस्त्वत्सखास्मन्मुखेन हिया पश्य पाण्डूभवन्भ्राम्यतीन्दुर्दिवि । वीक्ष्यमाणा वपुर्विभ्रमं दर्पणे सूचयन्तीरितीव स्मितं तन्वतीः ॥ ४२ ॥
काश्चिद्दर्पणे आदर्श वपुर्बिभ्रमं स्वशरीरसौन्दर्य शोभा वीक्ष्यमाणा निभालयन्तीः सतीः । उत्प्रेक्ष्यते-स्मितमीषद्धसितं तन्वतीविस्तारयन्तीविदधतीश्च सतीः । इत्यमुना प्रकारेण सूचयन्तीः कथयन्तीरिव । इति किम् । हे दर्पण, त्वं पश्य सावधानतया विलोकय त्वत्सखा तव मित्रमिन्दुश्चन्द्रः । 'जलाच्च तातान्मुकुराञ्च मित्रानभ्यर्थ्य धत्तः खलु पद्मचन्द्रौ' इति नैषधे मुकुरचन्द्रयोमै त्र्यं मिथः । अस्मन्मुखेन अस्माकं वदनेन निर्जितः पराभवभरं प्रापितः सन् पाण्डूरोभवन पाण्डुरो वपुषा जायमानः सन् धवलीभृतशरीरः हिया लजया कृत्वा दिवि निर्मानुषतया शून्ये नभसि भ्राम्यति पर्यटतीव ॥
શ્લોકાઈ
. કોઈ મિસ્ત્રી દર્પણમાં પિતાના શરીરની સુંદરતા જોતી, કંઈક હસતી દર્પણને જાણે આ પ્રમાણે કહેતી ન હોય કે “હે દર્પણ, તું જે, અમારા મુખની શોભાથી પરાભવ પામેલે તારો મિત્ર ચન્દ્ર, પાંડુરોગવાળે બનીને લજજાથી નિ જન આકાશમાં પર્યટન કરી રહ્યો છે ! છે ૪૨ છે
निष्कुटानोकहोत्फुल्लपुष्पोच्चये षट्पदान्पाणिमिर्दूरतः कुर्वतीः । स्पधितां बिभ्रते वाग्विलासैः सहास्माकमेते हृदीस्तीव रोषोदयात् ॥ ४३ ॥
काश्चिन्निष्कुटस्य गृहारामस्य अनोकहानां विविधजातिप्ररोपितपादपानामुत्फुल्लानि विनिद्रोभूतानि पुष्पाणि कुसुमानि तेषामुच्चयश्चुण्टन ग्रहणम् । 'उच्चिन्वन्ति च मालतीषु कुसुमश्रद्धालवो मालिकाः' इति चम्पूकथायाम् । तथैवोच्चयः षट्पदान भ्रमरान पाणिभिः स्वकरैः दूरतः विप्रकृष्टान् कुर्वतीः प्रणयन्तीः । उत्प्रेक्ष्यते-हृदि हृदयमध्ये इत्यमुना प्रकारेण रोषोदयात्कोपप्रादुर्भावात् इव । इति किम् । यदेते षट्पदा भ्रमराः अस्माकं वाण्या वाचा सह स्पर्धितां संघर्षिभावमभ्यसूयाम् । 'वाण्या भृङ्गीपिकीरौ' इति काव्यकल्पलतावचनादभृङ्गीसाहचर्यायाभृङ्गोऽप्यागत एव । बिभ्रते धारयन्ति । कुर्वतेत्यर्थः। स्वद्वेषिणस्तु दूरमुत्सार्यत एवेति ॥