SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २७२ सौभाग्यम् सर्ग १२ श्लो० ३६-३७ ] रिवधूवदने च भान्ति नारङ्गतरूपशोभे गण्डशैलस्थलालंकारिण्यो रोधलताः' इति चम्पूकथायाम् गण्डयोः शैलोपमानम् । अथ वा गण्डशैलौ कपोलप्रदेशावित्यर्थः ॥ શ્લાકા વળી, અંજનગિરિ અને વિધ્યાચલની ભૂમિની જેમ બિલ્લસ્ત્રીએ શેાભતી હતી. પત, મધ્યભાગમાં સુવણુ અને મણીને ધારણ કરે છે, તેમ ભિલ્લસ્ત્રીએ કટી પ્રદેશમાં સુવણુ મણીરચિત 'દોરાને ધારણ કરનારી છે. પર્વતના પર્યંતભાગ રકત હાય છે, તેમ ભિલસ્ત્રીઓ અલતાથી (લાલર'ગથી ) સુશેાભિત ચરણવાળી છે. ભિલ્લસ્ત્રી ઉજ્જવળ દાંતની પંક્તિથી શાલે છે, પત બહાર નીકળેલા દાઢારૂપ ગિરિપ્રદેશવાળા છે. ભિલી ગજગામિની છે તેા જેના પર સ્વેચ્છાપૂર્વક મદ્દોન્મત્ત હાથીએ ચાલી રહ્યા છે, તેવા પત છે. બિલ્લીએ તમાલસમાન કૃષ્ણવણીય ક્રાંતિવાળી છે, તેા પવ ત તમાલ આદિ વૃક્ષાવાળા છે. ભિલ્લસ્ત્રી કાલપ્રદેશ ઉપર વિચિત્ર પ્રકારની પત્રાલની શોભાને ધારણ કરનારી છે. તા પ ત માટી શિલાઓ ઉપર ભેગાં થયેલાં પાંદડાંએની પંકિતવડે શોભે છે. ૫ ૩૬ lu भृङ्गनेत्रा मृणालीजा जुम्भिताम्भोजवक्रास्तरङ्गोल्लसत्कुन्तलाः । बन्धुरावर्तनाभी रथाङ्गस्तनी हंसथाना यमीवारिदेवीरिव ॥ ३७ ॥ पुनरुत्प्रेक्ष्यते - यमी वारिदेवीर्यमुनाजलदेवता इव । किंलक्षणाः । मकरन्दपानलुभ्यदम्भोरुहाभ्यर्णपरिभ्राम्यन्तो भृङ्गा अतिश्यामत्वाच्चञ्चलत्वाच्च भ्रमरा इव भृङ्गारवा इव नेत्राणि नयनानि यासाम् । पुनः किंभूताः । मृणाल्यः कमलनालानि । नालमृणालशब्दौ Proof लिङ्गेषु । यथा - 'कुवलयमृणालमण्डलानालमृणालपटलाः' इति लिङ्गानुशासने । ता इव । मृणाला एव वा भुजा बाहवो यासाम् । भुजाशब्दः पुंस्त्रीलिङ्गयोः । पुनः किंभूताः । जृम्भितानि विकाशं प्राप्तानि अम्भोजानि तद्वत्तान्येव वक्राणि वदनानि यासाम् । पुनः किंभूता । तरङ्गाः पवनप्रसरलुलत्कल्लोला इव । तरङ्गा एव वा उल्लसन्तो विविधविच्छया स्फुरन्तः कुन्तलाः केशपाशा यासाम् । पुनः किंभूताः । बन्धुरा मनोज्ञा आवर्ता दक्षिणपार्श्वभ्रमणान्याकारविशेषा यासु तादृश्यः । पयोभ्रमाः ह्रदादिषु सलिलमागत्य पश्चाद्वलित्वा भ्रान्त्वा च पुरः प्रचलति 'गवर' इति समुद्रावगाहिलोकेषु प्रसिद्धा जलावर्तास्तद्वत्त एव वा । नाभ्यस्तुन्दकूषिका यासाम् । पुनः किंभूताः । रथाङ्गाश्चक्रवाकास्तद्वरा एव वा स्तनाः कुचा यासाम् । पुनः किंभूताः । हंसानां यानं लीलागमनं तद्वन्मनोज्ञ गमनं यासु । तथा हंसानां यानं जलक्रीड़ाकृते कमलनालबीजकोशबी जास्वादनार्थं गमनागमनं यासु ||
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy