________________
२७०
हीरसौभाग्यम्
[सर्ग १२ श्लो० ३४-३५
स्पर्धया यन्मुखालोकनप्रोल्लसत्समदेनेव वर्धिष्णुभिर्भक्तिभिः । सरिमभ्येत्य नत्या निजं पावयन्नात्मगेहाननैषीनिषादाधिपः ॥ ३४ ॥
" निषादाधिपोऽर्जुनः पुलिन्दराजोऽभ्येत्य गुरोः संमुखमागत्य नत्या पादारविन्दप्रणमनेन कृत्वा निजमात्मानं पावयन पवित्रीकुर्वन् सन् सरिं हीरगुरुं स्वान गृहान् आत्मीयानि मन्दिराणि प्रत्यनैषीत् प्रापयामास । निनायेत्यर्थः । काभिः । भक्तिभिः। किंलक्षणाभिः । वार्धिष्णुभिः प्रवर्धनशीलाभिः । उत्प्रेक्ष्यते-यस्य सूरेर्मुखं वदनं तस्यालोकनेन दर्शनेन कृत्वा प्रकर्षेण उल्लसन् सर्वप्रकारेण वर्धमानो यः संमदः परमानन्दसंदोहस्तेन साध स्पर्धयेव संघर्षेणेव ॥ इत्यर्जुनपल्लीपतिगृहागमनम् ।।
अथ चतुर्दशभिर्वृत्तः किराताङ्गनां विशिनष्टि । चम्पूकथादौ तथाविधशबरदशावर्ण नदर्शनात् । संबन्धस्तु चतुर्दशवृत्ते वक्ष्यते किरातवशा स्वकान्ता अजूहवदिति
પ્લેકાર્થ
ભિલરાજ અજુન આચાર્ય મહારાજની સામે આવી નમસ્કાર કરીને પવિત્ર થયે, છતાં સૂરિશ્વરજીના મુખરૂપી ચન્દ્રને જેવાથી ઉલસિત આનંદની સાથે સ્પર્ધા કરતી પ્રવર્ધમાન ભક્તિ વડે પિતાને ઘેર લઈ ગયે. . ૩૪
स्मेरपर्दोक्षणा भृङ्गगुजारवा हंसकोद्भासिनी मुस्मितश्रीभृतः। कर्णिकामादधाना रसोल्लासिनीः पद्मिनीर्नीलभासस्तथामोदिनीः॥३५॥
किंभूताः भिल्लीः । उत्प्रेक्ष्यते-पद्मिनीरिव । पद्मिनीः स्त्रीः कमलिनीश्च । किंभूताः। स्मेराणि प्रबुद्धानि पद्मानि कमलानि तद्वत्तान्येव वा ईक्षणानि नयनानि यासाम् । पुन: किंभूताः । भृङ्गानां भ्रमराणां गुञ्जा इव रवो ध्वनिर्यासाम् । 'वाण्या भृङ्गीपिकीरवौ' इति काव्यकल्पलतोक्तत्वात् । पक्षे मधुकराणां गुञ्जारवो यासु । पुनः किंभूताः । हंसकर्नूपुरैः पक्षे हंसा एव हंसकाः । स्वार्थे कः । तैमरालैरुद्भासन्ते प्राबल्येन शोभन्ते इत्येवंशीलाः । पनः किंभताः । सुशोभनां स्मितस्य ईषद्धसितस्य सदा हसितवदनत्वस्य वा तरुणार्ककिरणसंपर्कवशविकसिततालक्ष्मी च बिभ्रतीर्दधतीः । पुनः किंभूताः । कर्णिकां कर्णभूषणं बीजकोशं च दधानाः । पुनः किंभूताः । नीला मरकतमणिसदृशा भासो दीप्तयो यासाम् । पक्षे नीलाः । पुनः किंभूताः । रसैः शृङ्गारादिभिर्विविधक्रीडारसैर्वा पक्षे मकरन्दैरुल्लसन्ती