________________
सर्ग १२ श्लो० ३०-३२]
કરતા પ્રગટ પ્રતાપી હીરવિજયસૂરિએ મુનિમ'ડળની સાથે સિદ્ધપુરથી આગળ प्रयाशु यु. ॥ ३० ॥
२६८
सौभाग्यम्
भीरुभावान्निज व्यालमालाकुलं भीष्ममौज्झ्याश्रमं नागपूरागता ।
किं महीमण्डलं भिल्लपल्लीपुरो हीरसूरीन्दुना व्यालुलोके क्रमात् ॥ ३१ ॥
हीररीन्दुना श्रीहीरविजयस्ररिचन्द्रेण क्रमाद्विहारपरिपाटीतः पुरोऽग्रे भिल्लानां पुलिन्द्राणां पल्लीपुरी शिरोत्तराभिधानग्रामविशेषः हस्वग्रामो वा व्यालुलोके हग्गोचरीचक्रे उत्प्रेक्ष्यते - महीमण्डलं पृथिवीपीठं प्रत्यागता । सप्तमी वा महीमण्डले समेता नागपूभगवतीनाम्री भोगिनगरीव । किं कृत्वा । भीरुभावात् । विभेतीत्येव शीला भीरुस्तस्या भावस्तस्मात् । अथ वा स्त्रीस्वभावात् । 'योषिद्विशेषास्तु कान्ता भोरुनितम्बिनी' इति म्याम् भीतिसौलभ्याच्च । व्यालानां विषधराणां मालाभिः श्रेणीभिराकुलं निर्भरभृतमत एव भीष्म भयानकं मनस्यत्यभयोत्पादकं निजमात्मीयमाश्रयं निवासस्थानमौज्झ्य त्यक्त्वा 'वसीत निर्भये स्थाने' इति वचनात् द्विजिह्नभरभृतं भोगिभवनं मुक्त्वा क्षितौ समायाता नागनगरीव ॥
T
ક્લાકા
શ્રી હીરવિજયસૂરિએ અનુક્રમે ચાલતાં આગળ ભીલપલ્લી ( ભીલપુરી ) નામની નગરી જોઈ. તે સર્પોની હારમાલાથી વ્યાપ્ત હાઈને અત્યંત ભયાનક હાવાથી ભયભીત ખનેલી નાગપુરી ભાગવતી જાણે પેાતાના આશ્રયસ્થાનને ત્યાગ કરીને પૃથ્વી પર भावीने रही न होय ! ॥ ३१ ॥
क्वापि शक्तिं वहद्भिः कुमारैरिवाम्भोजनाभैरिवोद्यद् गदाधारिभिः । याभिरूपैरिवाभाति कादम्बरी सादरीभूतचित्तैः किरातैर्भृता ॥ ३२ ॥
या भिल्लपल्ली आभाति । किंभूता । बलबतामपि वहभिः किरातैर्भृता । तथा कुत्रचित्स्थाने अम्भोजनाभैः कृष्णैरिव उद्यन्तीं दीप्यमानां गदां सप्तघातुमयायुधविशेषं धरन्तीत्येव शीला गदाधारिणस्तादृशैः घारयन्ती शबरैव्र्व्याप्ता । कचन पानभूमौ कादम्बर्या मदिरापाने सादरीभूतं तत्परं संजातं चितं मनो येषाम् । कैरिव । अभिरूपैरिव । यथा कोविदैः कादम्बरीनामा बाणकविकृतग्रन्थविशेषस्तस्मिन्नादरेण अध्यायनाध्यापनासक्तमानसैर्जायते तादृशैः सुरापायिभिभिल्लैर्भूता ||