________________
२६४
हीरसौभाग्यम्
सर्ग १२ श्लो० २३-२४ ]
विप्रलब्धं विधात्रेव रूपश्रिया स्वं त्रिदश्योऽवयान्ति स्म यद्वीक्षणात् ।
यत्र भान्ति स्म ते शालभञ्जीभराः श्रीसुताम्भोजग्विभ्रमभ्राजिनः ॥२३॥ यत्र श्रीमजिनेश्वरसमवसरणे ते जगत्त्रयीस्त्रैणजैत्रगात्रलताः शालभञ्जीभराः पाञ्चालिकाप्रकारः भान्ति स्म शुशुभिरे । किंभूताः । श्रीसुतस्य कमलानन्दनस्य स्मरस्य अम्भोजवृक्कमललीचना स्त्री रतिस्तस्या विभ्रमः शोभा विलासो वा तद्वद्विभ्राजन्ते इत्येवं. शीलाः । अथ वा रतिवद्विभ्रमेण शोभया विलासेन वा शोभनशीलाः । ते के । येषां पुत्रिकाप्रकाराणां वीक्षणादर्शनात् त्रिदश्यः सुराङ्गना स्वमात्मानं रूपश्रिया वपुवै भवेन विधात्रा जगद्यावत्पुरुषयोषिद्वर्गसर्गविधायिना विप्रलब्धं वञ्चितमिवावयान्ति स्म मेनिरे । 'मद्विप्रलभ्य पुनराह यस्त्वां तकः स किं तत्फलं वाचिमुकः' इति नैषधे । विप्रलब्धु योग्य विप्रलभ्यमिति तदर्थः ॥
કલેકાર્થ
સમવસરણમાં કામદેવની પત્ની રતિના સૌંદર્યને પણ શરમાવે તેવી સૌંદર્યવતી પુતળીઓ શોભતી હતી, તે પુતળીઓને જેવાથી દેવાંગનાઓ પોતાના શરીરની સુભગતાની બ્રહ્નાવડે વંચના કરાઈ હોય, તેમ માનતી હતી? ૨૩ .
आप्तलक्ष्मीलताया इवोद्यत्फल वीक्ष्य विश्वेशितुर्देशनावेश्म तत् । - गोचरी स्यान्न वाक्चेतसोर्यः क्वचित्समदं विन्दति स्म व्रतीन्द्रः स तम् ॥ २४॥ .
स व्रतीन्द्रो हीरविजयसूरिः त मोहदयासादनसदृशं संमदमानन्दं विन्दति स्म लभते स्म । त कम् । यः संमदः क्वचित्कुत्रापि स्थाने नभःकल्लोलिनीविलसप्कुल्लोलमालास्खलितवाग्विलासशालिसुरासुरनरम्ररिषु वा वाक्चेतसोर्वचनमनसोर्वा न गोचरी स्याद्विषयो भवेत् । किं कृत्वा । विश्वेशितुस्त्रैलोक्यनायकस्य श्रीमत्तीर्थकृतो देशनावेश्मसमवसरणं वीक्ष्य लोचनगोचरीकृत्य । किंभूत तत् पूर्वव्यावर्णितस्वरुपम् । उत्प्रेक्ष्यते-आप्तस्य जिनराजस्य लक्ष्मीभुवनत्रयैश्वर्यश्रीः सैव लता विकसवल्ली उद्यत्प्रकटीभवत्फलमिघ ॥ इति पुरकृतानुसारेण समवसरणवर्णनम् ॥
શ્લેકાર્થ
'તીર્થકર ભગવંતની એશ્વર્યાની લહમીરૂપ લતા તત્કાલ ફલવતી બની ન હોય ! તેવા પ્રકારની પૂર્વોકત સ્વરૂપ વાળી સમવસરણભૂમિને જોઇને હીરવિજયસૂરિ મન અને quelथी अगाय२ सेवा मानन्दन प्रात १२ना२। मन्यां. ॥ २४ ॥