________________
[सर्ग १२ श्लो० २१-२२
हीरसौभाग्यम्
विभ्रतीभिः खगान्पत्त्रविभ्राजिनश्चन्द्रहासप्रसनप्रतानान्वहन् ।
चैत्यशाखी शिखाभिः श्रिताभिर्नभा स्वर्गिवृक्षाविजेतु किमुद्यच्छते ॥२१॥ यत्र धर्मदेशनवेश्मनि चैत्यशाखी अशोकतरुरपरो वा वटवृक्षादिसालद्रुमावसान चैत्यद्रुमः नभो गगनाङ्गणं श्रिताभिः गाहमानाभिः शाखाभिः कृत्वा । उत्प्रेक्ष्यते-स्वर्गिवृ: क्षान सुरतुमान कल्पतरुन् विजेतु पराभवितुमुद्यच्छते उद्यम करोतीव सजीभवतीव था । किंभूताभिः शिखाभिः । पत्त्रैः पक्षविभ्राजन्ते शोभन्ते इत्येवंशीलान खगान पक्षिणो बाणांच बिभ्रतीभिः धारयन्तीभिः । 'बाणपृषक्तयिशिखौ खगगर्धपक्षाः' । तथा 'विहगा विहंगमखगौ खगगर्धपक्षा अपि' इति हैम्याम् । चैत्यशाखी किं कुर्वन् । चन्द्रः सुधाकरः कपुरो वा हासो हसितं तयोः 'वेतिमा तुल्यार्ना प्रसूनानां कुसुमानां प्रतानान् स्तबकान चन्द्रहास खङ्गश्च वहन बिभ्राणः अन्योऽपि सुभटो विरोधिना योदूधुमिच्छुः चतुर्विधान्यायुधानि धत्ते । यथा-पाणिमुक्तानि शक्तिप्रमुखानि, यन्त्रमुक्तानि शरादिकानि अमुक्तानि शत्रिकाधानि, मुक्तामुक्तभेदद्वयात्मकानि दण्डादिमानि, इति । तथैवाय चैत्यतरुः शरग्रहणेन पाणियन्त्रमुक्तयोग्रहणम् । चन्द्रहासग्रहणेन च मुक्तामुक्तयोः संग्रहः । तथा च म्याम्-अस्त्र तश्चतुर्विधम् । मुक्त द्विधा पाणियन्त्वमुक्त शक्तिशरादिकम् । अमुक्त शनिकादि स्थायष्टयाथ तु यात्मकम् ॥' इति ॥
શ્લેકાર્થ સમવસરણમાં, ગગનાંગણને સ્પર્શીને રહેવું અશક વૃક્ષ શેલે છે તે જાણે ચન્દ્ર હાસ ખડગને ધારણ કરતી શાખાઓ વડે કલ્પવૃક્ષને જીતવા માટે સજજ થયું ન હોય ? ૨૧ .. देशनामन्दिरे यत्र जाम्बूनदः शक्रकेतुः पुरश्चुम्बति स्माम्बरम् । ...
कौतुकान्नाकिलोकं दिक्षुः क्षितेस्तीर्थभर्तु : प्रसर्पन्प्रतापः किमु ॥२२॥ यत्र धर्मदेशनामन्दिरे श्रीजिनराजसमघसरणे जाम्बूनदः स्वर्णनिर्मितः शक्रकेतुस्ि न्द्रध्वजः पुरो जिनेन्द्राग्रे अम्बरमाकाशं सहस्त्रयोजनप्रमाणत्वेनात्युच्चस्तरत्वात् चुम्बति स्पृशति । उत्प्रेक्ष्यते-कौतुकात् हृदयमध्येऽतिकुतूहलात् नाकिनां देवानां लोकं भुवन वासस्थानं स्वर्ग दिदृक्षुर्द्रष्टुमिच्छुः क्षितेभूमेः सकाशात्मसर्पन्नुच्चैर्गच्छन् तीर्थभर्तुजिमेन्द्रस्य किमु प्रतापः ॥
- रस સમવસરણમાં એક હજાર યોજના પ્રમાણ ગગનચુંબી અને સુવર્ણમય એ ઇન્દ્ર વજ ભગવંતની આગળ શેભે છે, તે જાણે કૌતુકથી સ્વર્ગલેકને જોવા માટે ઉપરથી નીચે પ્રસરત તીર્થંકર ભગવંતને પ્રતાપ ન હોય ! ૨૨ છે