________________
सर्ग १२ श्लो० ११-१२]
हीरसौभाग्यम्
२५७
देशनामन्दिरं श्रीजिनेन्दोः पुरो व्यालुलोके वसत्यां व्रतीन्द्रस्ततः । आप्तमाराद्धकामेव लोकत्रयी वप्रत्रितयीकैतवात्समीयुषी ॥ ११ ॥
ततः पत्तने प्रवेशानन्तरं व्रतीन्द्रः सरिः वसत्यामुपाश्रये पुरस्तात् श्रीजिनेन्दोः श्रिया त्रैलोक्याधिपत्यलक्ष्म्या कलितस्य जिनानां सामान्यकेवलिनां मध्ये इन्दुः सर्वाह्लादकत्वार्थकरस्तस्य यदग्रे वर्ण्यमानं सुरासुरनरेषु प्रसिद्धं वा देशनामन्दिरं समवसरणं व्यालुलोके विलोकते स्म । दृष्टवानित्यर्थः । तक्तिम् । यत्र धर्मदेशनामन्दिरे वप्रत्रितय्याः प्राकारप्रयस्य कपटात् । उत्प्रेक्ष्यते-आप्त श्रीजिनेन्द्रमाराद्धकामा सेवितुमभिलषन्ती लोकत्रयी त्रिलोकी समीयुषी समागतेव ॥
શ્લેકાર્થ
- નગર પ્રવેશ થયા બાદ શ્રી હીરવિજયેસૂરિજીએ ઉપાશ્રયની આગળ શ્રીજિનેશ્વર ભગવંતનું સમવસરણ જોયું. તે સમવસરણમાં ત્રણ ગઢના બહાને જાણે ત્રિકી શ્રીજિનેશ્વરભગવંતની ઉપાસના કરવા માટે આવી ન હોય?૧૧ છે
... जत्र वापीषु पश्यन्ति शंभुश्रियं वारिदेव्यः स्मिताम्भोजनेत्रैरिव । ...
अर्हतेव स्ववाचामृतं निर्जितं सेवितुं तं पुनस्तासु संतिष्ठते ॥ १२ ॥
यत्र समवसरणे वापीषु जलसंपूर्णदीर्घिकासु वारिदेव्यो अलदेवताः स्मितानि विकसितानि अम्भोजानि कमलानि तान्येव नेत्राणि नयनानि तैः । उत्प्रेक्षतेविकचकमललोचनैः कृत्वा शंमुश्रियं तीर्थकृतश्चतुस्त्रिंशदतिशायाधतिशायिलक्ष्मी पश्यन्ति विलोकयन्तीव । पुनरर्हता जिनेन्द्रेण स्ववाचा मधुरिमाद्वैतात्मगिरा अमृतं पीयूषं निर्जितमभिभूतं सत् । उत्प्रेक्ष्यते-पुनस्तं जिनेन्द्र सेवितुमुपासितुमिव तासु वापीषु संतिष्ठते समेत्य स्थितम् ॥
કાર્થ '' સમવસરણની વાવડીઓમાં જલદેવીઓ વિકસ્વર કમલરૂપી વડે, તીર્થ કરની ત્રિીશ અતિશયેની લક્ષ્મી જેતિ ન હોય ! વળી ભગવંતની વાણીની અદ્વિતીય મધુ
हि, सौ. ३३