________________
२५६
हीरसौभाग्यम्
सर्ग १२ श्लो ० ९-१०]
निषेधार्थवाचकौ तत्र निषेधार्थवाची नकारस्तत्र लोपो न भवति नैषधेत्यादौ ज्ञेयः नत्रस्तु लोपो भवत्येव' इति प्रक्रियाकौमुद्याम् । उक्तत्वात्समासत्वाच्च नकारस्यानादेशो न स्यादिति । द्वादशाचिबृहस्पतिरुा पृथिव्यां स्वयमात्मनैव स्वस्यात्मनश्चातुर्य निपुणतां दर्शयन्निव । अथ वा दर्शयन् द्वादशाचिरिव ।।
લેકાર્થ
ત્યાર પછી શિષ્યને સમૂહ પરપર નવનવા કાવ્યની રચના કરીને સૂરિભાસ્કરની તુતિ કરતા હતા, તે જાણે બૃહસ્પતિ સ્વયં અનેક શરીરને ધારણ કરીને પૃથ્વી ઉપર પિતાની ચાતુરી બતાવતે ન હોય ! ! ૯ છે
तत्समीक्षोत्सुकीभूतदिङ्नायके पौरपुजैः प्रणीते महाडम्बरे । द्यामिवेन्द्रो जयन्तेन भट्टारकस्तेन सूरीन्दुना प्राविशत्पत्तनम् ॥१०॥
भट्टारकः । यद्यपि भट्टारकशब्देन पूज्यत्वख्यापनम् 'पादा भट्टारको देवः प्रयोज्याः पूज्यनामतः' इति हैम्यामुकत्वात् पूज्यपादाः तथा भूपतिर्भोजदेवः तथा अर्हद्भट्टारकं गृहीत्वेत्यादौ प्रशस्यार्थप्रकारकत्वं दृश्यते, तथाप्यत्र जैनशासनानुसारेणाधुना लोकरूढया भट्टारकशब्देन बृहद्गणाधिपस्तच्छिष्यस्तस्मिन्बृहद्गणाधिपे विद्यमाने आचार्य इत्युच्यते इतिसंप्र दायः।श्रीहीरविजयसूरिः तेन सूरीन्दुना विजयसेननाम्ना सूरिचन्द्रेणाचार्यचन्द्रमसा साकं पत्तनं । पुटभेदन प्राविशत्प्रविशति स्म । 'द्वीपान्तरेभ्यः पृथिवीपतिभ्यः क्षणादवापे पुटभेदनं तत् इति नैषधे । क इव । इन्द्र इव । यथा पुरंदरो जयन्तेन निजनन्दनेन जयदत्तेन समं चां दिवं नन्दनादौ क्रीडित्वागत्य प्रविशति । कस्मिन् सति । पौरपुजैर्नागरिकनिकरैर्महाडम्बरे अतिशयितोत्सवे प्रणीते कृते सति । किंभूते महाडम्बरे । तस्य महाडम्वरस्य समीक्षा सम्यक्सर्वप्रकारेणावलोकनं तत्रोत्सुकीभूता उत्कण्ठिता जाता दिङ्नायका दिक्पाला यत्र ॥ इति हीरसूरेः पत्तने समागमनम् ॥
શ્લેકાર્થ જે ઉત્સવને જેવા દિકપાલે ઉત્કંઠિત થયા છે તેવા નાગરિકે વડે કરાયેલા મહા મહત્સવ પૂર્વક, જેમ ઈદ્ર પિતાના પુત્ર જયંતની સાથે સ્વર્ગ પુરીમાં પ્રવેશ કરે તેમ ભટ્ટારકાચાર્ય હીરવિજયસૂરિજીએ વિજયસેનસૂરિ સાથે અણહિલપુર પાટણમાં भवेश या. ॥ १०॥