________________
-
२५४
हीरसौभाग्यम्
सर्ग १२ श्लो० ५-७ ]
મુસાફર આવીને વિકસ્વર વડના વૃક્ષને આશ્રય કરે તેમ, આવીને આચાર્ય મહારાજના ચરણકમલને આશ્રય કર્યો અર્થાત્ નમસ્કાર કર્યા. ૫
आजगामानाथ कम्माङ्गजन्मा यतिक्ष्मातलाखण्डलः संमुख तत्प्रभोः । सूरिणाप्यर्णवेनेव शीतयुतेः पिप्रियेऽद्वैतमस्योदयं पश्यता ॥ ६॥
अथ सूरेः पत्तनसमीपे समागमनानन्तरं कम्मानामसाघोरङ्गजन्मा नन्दना विजयसेननामा यतिषु मुमुक्षुषु अथ वा यतीनां मध्ये क्ष्मातलस्य महीमण्डलस्याखण्डलो वासवः । सूरीन्द्र इत्यर्थः । तस्य प्रभोः श्रीहीरविजयसूरीन्द्रस्य संमुखमभिमुखमाजगाम समागच्छति स्म । अपि पुनरस्य बिजयसूरेरद्वैतमनन्यसामान्यमुदयं वैभवातिशयप्रादुर्भाव पश्यता स्वयं विलोकयता सता सूरिणापि हीरगुरुणापि पिप्रिये प्रमुदितमद्वैतप्रीतिमत्ता समजायत । केनेव । यथा शीतयुतेः कौमुदीदयितस्याद्वैतमभ्युदयं पश्यता समुद्रण चन्द्रजनकेन प्रीयते । यस्माद्ये समुत्पद्यन्ते स तेषां पिता, चतुर्दशानामापि रत्नानां समुद्रे समुत्पन्नत्वात्समुद्र एव पिता । यथा लक्ष्म्याः प्रसिद्धं नाम क्षीरोदतनया हैम्याम्, तथा चन्द्रोऽपि प्रसिद्धः समुद्राङ्गजः । तथा च नैषधे-'सिताम्बुजानां विरहस्य यच्छलाद्वभावलिश्यामलितोदरश्रियाम् । तमः समच्छायकलङ्कसंकुलं कुलं सुधांशोबहुलं वहन्निव ॥” इति । 'कुलशब्देन समूह वंशं वा वहति' इति तदवत्तिः ।।
શ્લોકાર્થ
ગુરૂમહારાજને પાટણ પાસે પધારેલા જાને. સાધુઓમાં ઈન્દ્ર સમાન કમાશ્રેષ્ઠીને પુત્ર; આચાર્યદેવ વિજયસેનસૂરિજી સન્મુખ પધાર્યા. સમુદ્ર જેમ ચન્દ્રોદય જતાં આદિંત બને તેમ હીરવિજયસૂરિ વિજયસેનસૂરિજીને અદ્વિતીય ઉદય જોઈ અત્યન્ત मानहित मन्या, ॥ ६॥
हीरसूरिक्रमद्वन्द्वनम्रीभवत्तन्मुखं प्राप कामप्यनन्यां श्रियम् । कल्पितानल्पसख्यः कथंचिन्मिथः संगतः पङ्कजेनेव शीतयुतिः ॥ ७ ॥
हीरसरेः स्वगुरुश्रीहीरविजयसूरेः क्रमद्वन्द्वे चरणयुगले नम्रीभवत्संजायमानं तन्मुख विजयसेनसरिवदनं कामपि वचनगोचरातीतामसाधारणीं श्रियं शोभां प्राप लभते स्म । उत्प्रेक्ष्यते-मिथः परस्परं कथंचित्केनापि प्रकारेण कल्पितं निर्मितमनल्पं बहुदृष्टं च