________________
-
[सर्ग १२ श्लो० ४-५
हीरसौभाग्यम्
२५३
निम्वजम्वीरजम्बूकदम्बमान्स्मेरमाकन्दकारस्कर कीरवत् । लङ्घयन्ग्रामसीमापुरीः स प्रभुः प्राप्तवान्पत्तनस्वोपकण्ठं क्रमात् ॥ ४॥
स प्रभुः हीरसूरीश्वरः नमाग्रामानुग्रामविहारपरिपाट्या पत्तनस्याणहिल्लापाटकनामपुटभेदनस्य उपकण्ठं संनिधानं प्राप्तवानासादयामास । किं कुर्वन् । ग्रामान लघुपुराणि संनिवेशान्वा सीमामभयामियानगरयोर्वा मध्यभूमी ग्रामसमीपभूर्वा पुरीमहन्नगराणि विश्वलपुरमहीशानकादीनि लङ्घयन्नतिक्रामन् । किं च कीरवत् । यथा शुको निम्वान् पिचुमन्दान जम्बीरान जम्मिलान वृक्षविशेषान जनप्रसिद्धान् जम्बून श्यामफलान्प्रसिद्धान् कदम्बान्नीपान धाराकदम्बान धूलीकदम्बांश्च जातिद्वयविशिष्टान् एतानेव द्रुमान पादपान लवयन मुञ्चन् स्मेरं वसन्तऋतुना विकसितं पल्लबदलकलिकाकुसुमफलकलितं कृतं माकन्दकारस्करं सहकारतरु प्राप्नोत्यधिगच्छति ।।
શ્લેકાર્થ
જેમ પિપટ લીંમડે; જંબરફ જાંબુ અને કદંબ આદિ વૃક્ષને ત્યજીને વિકસ્વર એવા આમ્રવૃક્ષને સેવે તેમ હીરવિજ્યસૂરિજી ગામ નગર અને સિમાડા આદિનું ઉલ્લંઘન કરીને અનુક્રમે અણહિલ્લપુર પાટણ પાસે પધાર્યા, ૪
श्रोत्रपत्त्रैर्निपीय प्रभोरागमामेयपीयूषमानन्दमेदस्विनः । तत्पदाम्भोजमभ्येत्य भेजुर्जनाः पान्थसार्था इव स्मेरदुर्वीरुहम् ॥ ५ ॥
जनाः पत्तनश्राद्धलोकाः अभ्येत्यागत्य तत्पदाम्भोज सरिचरणारविन्दं भेजः सेवन्ते स्म । प्रणमन्ति स्मेत्यर्थः । के इव । पान्थसार्था इव । यथा पथिकप्रकराः अभ्येत्य दूरात्समागत्य निदाघदाघतप्तीकृताङ्गाः प्रबलपथश्रमश्रान्ताश्च सन्तः स्मेरन्तं विकसन्तमुर्वीरुहं बहुलपल्लवदलफलच्छायाछन्न मार्गवर्तिमहीरुहं भजन्ते । 'स्मेरदम्भोरुहारामपवमानमिवानिलः' इति पाण्डवचरित्रे । जनाः किंभूताः । आनन्देन प्रमोदेन मेदस्विनः उपचयवन्तः स्फुरद्रोमाञ्चकञ्चुकपुश्वपुषः । किं कृत्वा । प्रभोः श्रीगुरोरागम आगमनं तदेवामेयं प्रमाणातीतं पीयूषममृतं श्रोत्रपत्त्रैः कर्णपर्णदुन्दुकैनिपीयातितृप्ततया पोत्वा । सादरं श्रुत्वेत्यर्थः । अथ च 'पीयूषोऽभिनव पथः' इति हैम्याम् । सद्यस्कपयःपानाच्च पुष्टाङ्गा भवन्त्येव ।।
શ્લેકાથ
શ્રીહીરવિજયસૂરિજીના આગમનરૂપ પ્રમાણાતીત અમૃતનું કાવડે પાન કરીને અર્થાત સાંભળીને હૃષ્ટપુષ્ટ બનેલા પાટણના શ્રાવકોએ, જેમ માર્ગથી શ્રમિત બનેલા