________________
सर्ग ११ श्लो ० १५६-१५७ ] हीरसौभाग्यम्
२४९
तदुदितमधिगत्य चित्रमन्तर्दधता तेन पुरीपुरंदरेण । इव कजमलिनाथ चुम्बता तच्चरणयुगं यतिकुजरो व्यसजि ॥ १५६ ॥
अथ सूरिवचनानन्तर तेन पुरीपुरंदरेण अकमिपुराधिपतिना साहिबखानेन थति: कुञ्जरः श्रीहीरविजयसूरिः । व्यसर्जि विसय॑ते स्म । स्वस्थानगमनायानुमेने । स्ववसति प्रति प्रेषित इत्यर्थः । तेन किं कुर्वता । तच्चरणयुगं सूरिपादारविन्दद्वन्द्व चुम्बता स्पृशता । केनेव । अलिनेव । यथा भ्रमरण कर्ज कमलं चुम्ब्यते । पुनः किंभूतेन । तदुदितं सरिभाषितमधिगत्य विज्ञाय सम्यगवगम्य अन्तः स्वान्तःकरणे चित्रमाश्चर्य दधता बिभ्रता ॥
લોકાથી
ત્યારપછી, સૂરીન્દ્રની સર્વ વાતને હદયમાં ધારણ કરીને આશ્ચર્યમગ્ન બનેલા નગર પતિ સાહિબખાને ભ્રમરની જેમ સૂરિજીનાં ચરણયુગલને સ્પર્શ કરીને સ્વસ્થાને જવા માટે અનુમતિ આપી. તે ૧૫૬ છે
वसतिमसुमच्चेतांसीव प्रविश्य महोत्सवं
वचनविषयातीतं स्फीतं वितन्वति पूर्जने । सरसिरुहभूः प्रोज्जम्भाम्भोरुहीब सुख स्थितः कतिचन दिनांस्तस्मिन्सूरीश्वरोऽगमयत्पुरे ।। १५७ ॥
सूरीश्वरो हीरविजयसूरिः तस्मिन्नकमिपुरे कतिचन कियत्संख्याकान् दिनानगम. यदतिकामति स्म । किंभूत: । सुखं यथा स्यात्तथा स्थितः । क इव । सरसीरुहभूरिव । यथा पद्मभूब्रह्मा प्रोजृम्भाम्भोरुहि विकसिततामरसे तिष्ठति । 'ताम्यस्तामरसान्तराल वसतिर्देवः स्वयंभूरभूत्' इति खण्डप्रशस्तौ ब्रह्मणः कमले वसतिः । किं कृत्वा । वसति. मुपाश्रयं प्रविश्य उपाश्रयमध्ये गत्वा । स्थित्वेत्यर्थः । कानीव । असुमच्चतांसीव यथा जनानां भव्यलोकानां चेतांसि मनांसि प्रविवेश । चित्तेषु प्रविष्ट इत्यर्थः । अत्रैकवचनस्य वहुवचनोपमास्ति । अन्यत्रापि क्वाप्येवं दृश्यते । यथा रघुवंशेऽप्येवं दृश्यते-वैदर्भनिदिष्टमथो कुमारी नारीमनांसीव चतुष्कमन्तः' इति । कस्मिन्सति । पूर्जने राजनगरानेकश्रावकवर्गे वचनानां वाचां विषयागोचरादतीतमतिशायित्वाद्वाग्गोचरमतिक्रान्तम् ।
हि, सौ, ३२