________________
२४८
हीरसौभाग्यम्
[सर्ग ११ श्लो० १५४-१५५
उपकर्तुं जलदा इव परपुष्टा इव पुनः प्रियं वक्तुम् ।
स्नेहितुमिव दृक्पद्माः प्रायः प्रभवन्ति भुवि सुजनाः ॥ १५४ ॥ हे भूमीपाल; जलदा मेघा इव उपकर्तुं जगतोऽप्युपकारं कर्तुम्, पुनः परैः काकैः पोष्यन्ते स्म इति परपष्टाः कोकिला इव प्रियं मष्ट वक्त भाषितम्, पुनः दृक्पमा नयन लिनी इव । कमलनलिनपद्मारविन्दशब्दाः पुंनपुंसकलिङ्गयोः । स्नेहितु स्नेहं मैत्र्यं कर्तु प्रायो बाहुल्येन भुवि पृथिव्यां विषये सुजना उत्तमजनाः प्रभवन्ति समर्थी भवन्ति । यदुक्तम्-'स्नेहला नैव नेत्रेभ्यो घनेभ्यो नोपकारिणः । पिकेभ्यो ना प्रियालापा दृश्यन्ते भुवने परे ॥
શ્લોકાથ
હે રાજન, એ ઉપકાર કરવા માટે, કેફિલે પ્રિય બલવા માટે તેમ જ કમલ જેવા નયનવાળા સજજને, પ્રાયઃ મૈત્રી કરવા માટે આ પૃથ્વી પર જન્મે છે. (કહ્યું છે કે-નેત્રે સિવાય કેઈ નેહાળ નથી, મેઘા સિવાય કેઈ ઉપકારી નથી અને કેકિલા સિવાય કોઈ પ્રિયભાષી નથી.) in ૧૫૪
किं बहुनाशुशसूनोरिवात्मभर्तुविधातुरादेशम् ।
नीतिमतो दाशरथेरिव राजन्धर्मलाभोऽस्तु ॥ १५५ ॥ हे राजन, किं बहुना भूयिष्ठभाषणेन किमस्तु न किमपि । ततस्तव धर्मलाभः धर्मलाभ इति नाम्ना अस्मत्पक्षसंमत आशीर्वादोऽस्तु भवतात् । तब किं कर्तुः । आत्मभर्तुः स्वस्वामिनः अकब्बरसाहेरादेशमाज्ञां विदधातीत्येवंशीलस्य । कस्येव । आशुगसनोरिव । यथा पवनात्मजन्मा हनूमान् स्वस्वामिने रामचन्द्रस्यादेशविधातासीत् । पवनस्य नामपरावृत्तिबहुधा दृश्यते । यथा हैम्याम्-'हनूमान् बनकण्टक: मारुतिः' इति । तथा चम्पूकथायाम्-'प्रभञ्जनाः खण्डिताञ्जनाधरप्रवालाः' इत्यादि । पुनस्तव किंलक्षणास्य । नीतिमतौ युक्तन्यायोपपन्नस्य । कस्येव । दाशरथेरिब । यथा दशरथस्यापत्यं दाशरथिः श्रीरामः न्यायवानासीत् ।। इति सूरिणा तस्य स्वामिभक्तता प्रकाशिता ।।
શ્લેકાર્થ
હે રાજન, વધુ શું કહેવું ! પવનપુત્ર હનુમાનની જેમ પોતાના સ્વામી અકબર બાદશાહની આજ્ઞાનું પાલન કરવામાં તત્પર અને રામચન્દ્રજીની જેમ ન્યાયનિષ્ઠ જેવા તમને “ધર્મલાભ રૂપ આશિષ છે. જે ૧૫૫