________________
सर्ग ९ श्लो ० ३५-३७]
हीरसौभाग्यम्
જાય તેમ ચન્દ્રિકા રાત્રિના ક્ષયથી તેજહીન બનેલા ચન્દ્રને જોઈને, પિતાને અભિમત સ્થાને ચાલી ગઈ, કે ૩૫
रथाङ्गव्यथनोद्भूतै : पवित्रमैरिव पाप्मभिः। त्रियामापगमे राजा तत्यजे वसुभिः क्षणात् ॥ ३६॥
त्रियामाया निशाया अपगमे विरामे विनाशे । क्षये इत्यर्थः । राजा चन्द्रो नृपतिश्च क्षणात् निमेषमात्राद्वसुभिः किरणद्रव्यैश्च तत्यजे परित्यक्तः । 'वसुस्त्वग्नौ देवभेदे रुचि योक्त्रे शुक्रे च सुस्वादे रत्ने वृघ्योषधे घने इत्यनेकार्थाः । उत्प्रेक्ष्यते-रथाङ्गानां चक्नवाकविहंगमानां व्यथनैः परस्परषियोगोत्पादनैरुभूतैः संजातैस्तथा पवित्रमैः परिपाकं प्राप्तः उद. याचलिकायामुपागतः परमपाप्मभिरुत्कृष्टदुःकृतैरिव । नृपतिरप्यकराकरकरणदण्डनपरदारगमनग्रहणसप्तव्यसनरोचनादिजनितदुरन्तदुरितैः कृत्वा । द्रव्यादिभिरादिशब्दात् अश्व- • गजरथपदातिसुभटजनपदपुरग्रामादिरूपलक्ष्मीधनस्त्यज्यते । क्षीणे पुण्ये विधीयमाने च दुर्नये श्रीर्याति । यतः–'पुण्ये सत्यपि लक्ष्मी दुनीतिरिहान्तरे क्षय नयति । तैलेऽनुपभुक्तेऽपि हि दीपशिखां हन्ति वाताली।' इति वचनात् ॥ इति चन्द्स्थास्यचलगमनम् ॥
કલેકાર્થ જેમ ઉદયાવલિકામાં આવેલાં અશુભ કર્મોથી દુર્વ્યસનીરાજા રાજગાદી ઉપરથી ફેંકાઈ જાય છે, પદભ્રષ્ટ થાય છે તેમ ચક્રવાકેના વિયેગજન્ય વેદનાથી ઉત્પન્ન થયેલા પાપ કર્મોરૂપ કિરણથી રાત્રિને ક્ષય થતાં ક્ષણમાત્રમાં ચન્દ્રને ત્યાગ કરાયો [ પુણ્ય હોવા છતાં પણ દૂરાચારથી લમીને ક્ષય થાય છે, શું ! તેલ હોવા છતાં પણ પ્રચંડ पवनयी पशिमानेक्षय नथा थी ! ] i 360
नियन्न्य हन्तुं स्वर्भाणुपाशकाङ्क्षीव पाशिना ।
विधुः पाथोधिसौधेनाधातुं सौहार्दमीयिवान् ॥ ३७॥ विधुर्वासतेयी विवोढा निशापतिः । पाथोधिरम्भोनिधिः समुद्रः स एव सौंध वासवेश्म यस्य तेन । 'वरुणस्त्वर्णवमन्दिरं प्रचेताः' इति हैम्याम् । पाशः स्वशात्रवनियन्त्रणदवरकग्रन्थिरस्यास्तीति पाशी वरुणः । 'जलयादःपतिपाशिमेघनादाः' इति हैम्याम् । वरुणाह्रास्त्रं तेन प्रचेतसा साधं सौहार्द मित्त्रमित्रतामाधातुं कर्तुमीयिवान् । तद्धानि जलनिधौ जगाम। उत्प्रेक्ष्यते-पाशकाङ्कीव । मित्त्रीभूताद्वरुणात्पाशं गृहीतुं काङ्गति स्पृहयतीत्येवंशील इव । यतः मित्रस्य यद्विलोक्यते तन्निजमित्रात्सद्वस्तु गृह्यते इति रीतिः । किं कर्तुम् । स्ववैरिणं स्वर्भाणु विधुतुदं गियन्त्र्य कथंचित्पाशेन कृत्वा निबध्य हन्तुं कृतान्तनिकेतनातिथीकर्तुम् ॥