SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ १४ हीरसौभाग्यम् [सर्ग ९ श्लो ० ३४-३५ दृष्ट्वा यान्तं जघन्यायामन्तभृताभ्यसूयया । चन्द्रश्चन्द्रिकया रुच्य इव चण्डिकया जहे ॥ ३४ ॥ चन्द्रः कैरविणीरमणः चन्द्रिकया ज्योत्स्न्या जहे त्यक्तः । उत्प्रेक्ष्यते--अन्तर्मनोमध्ये भूता प्रकटा जाता अभ्यसूया ईर्ष्या तयेव । किं कृत्वा । जघन्यायां निकृष्टायां जातेर्वा रुपाता श्वपचरूपायामतिकुत्सितायां च । स्वभावतः स्त्रीजातावस्याबाहुल्यं स्यात्सपत्नमपि द्रष्टुं न शक्नोति ततोऽन्यस्याः का किंवदन्ती । तत्रापि तां विशुद्धां विश्वाह्लाददायिनीमेकपत्नी सती विहाय सकलङ्कां जगद्विषाद विधायिनी कुरूपां मातङ्गाङ्गनामेषोऽभिसरत्येषा महीयस्यसूया तयेव कृत्वोज्झित: अथ च जघन्या पश्चिमा । 'अजघन्य: प्रचेताः । नलः किंभूतः । अजघन्यः सर्वोत्कृष्टः । तथा प्रकृष्टमुत्तमत्वोचितं चेतो मनो यस्य । तथा प्रचेता वरुणस्तु सजघन्य सह जघन्यया प्रतीच्या दिशा वर्तते यः तदधिपतित्वात्' इति चम्पूकथायाम् । यान्तं गच्छन्तं गमनं कुर्वन्तम् दृष्ट्वा स्वलोचनगोचरीयव । कृत्य क इव । रुच्य इव । यथा चण्डस्त्वस्न्यतकोपन. स्त्री चेच्चण्डिका कृतं को कथमप्यनुज्झल्या स्त्रिया कान्तः शूद्रीमभिसरन् हीयते त्यज्यते ॥ લેકાર્થ ચન્દ્રિકાએ ચન્દ્રને ત્યાગ કર્યો [ શા માટે ] વિશ્વને આહ્લાદ આપનારી એવી પિતાની સતી પત્ની [ ચન્દ્રિકા] ને ત્યાગ કરીને, કલંકિની, કુરૂપ અને જઘન્યા એવી માતંગી [ પશ્ચિમદિશા ] તરફ પિતાના પતિ ચન્દ્રને જોઇને, અંતરમાં ઉત્પન્ન થયેલી ઈર્ષાથી જ જાણે ચન્દ્રિકાએ એનો ત્યાગ કર્યો ન હોય! જેમ ચંડિકા (અત્યંત ક્રોધાતરસ્ત્રી) સુદ્રઢીમાં આસકત એવા પિતાના પતિને ત્યાગ કરે તેમ ચન્દ્રિકાએ ચન્દ્રને ત્યાગ કર્યો. અર્થાત્ પશ્ચિમ દિશામાં ચન્દ્ર તેજહીન બને. એ ૩૪ प्रेक्ष्यं क्षपाक्षये चन्द्रं विद्राणं चन्द्रगोलिका । त्यक्त्वा कान्तं ययौ कापि पुश्चलीव यदृच्छया ॥३५॥ चन्द्रगोलिका विशदचन्द्रिका कान्तं स्वभर्तारमर्थतो विभावरीवल्लभं त्यक्त्वा मुक्त्वा संत्वज्य क्वापि स्वरुचिते स्थाने यदृच्छया स्वेच्छया ययौ प्रयातवती । किं कृत्वा । क्षपाया निशायाः क्षये क्षीणतायां विनाशे विद्राणं नि:श्रीक मृतप्रायं चन्द्रं नक्षत्रनायक प्रेक्ष्य विभाव्य । केव । पुंश्चलीव । यथा व्यभिचारिणी स्त्री स्वकान्तं त्यक्त्वा क्वाप्यभिमते पुंसि प्रयाति ॥ લોકાથ જેમ વ્યભિચારિણી થી પોતાના પતિને ત્યાગ કરીને પોતાના ઈષ્ટ પુરૂષ તરફ
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy