________________
सर्ग ११ श्लो ० १५१-१५२ ] हीरसौभाग्यम्
२४५
मुक्तास्वर्णमणीगणाः पुनरमी येषां मुनीनां गुणा
यानान्यद्भुतभावनाश्च यशसां पुञ्जाः पुरोगामिनः ॥१५१॥ विश्वस्फूर्जदमारिशिष्टपटहा मोहाधरिध्वंसिनः ।
साम्राज्यं दधतेऽनिशं दशदिशां ये सार्वभौमा इव । ये श्वेनांशुकशालिनः कुमुदिनीकान्ता इव क्ष्मापते
ते प्राप्ताखिलकामिता इव बयं नाशास्महे किंचन ॥ १५२ ॥ हे श्मापते खान, प्राप्तानि सर्वात्मना लब्धानि अखिलानि समस्तानि कामितानि वाञ्छितानि मानसिकवाचिककायिककामा यैस्तादृशा इव ते वयं किंचन किमपि नाशास्महे न कामयामहे । ते के। येषामस्माकं प्राणातिपात-मृषावाद-अदत्तादान-मैथुनपरिग्रहविरमणलक्षणानि पञ्च महाव्रतान्येव वाहाः पट्टजात्यतुरङ्गाः सन्ति । पुनर्येषां क्षान्त्यादयः क्षमा-आर्जव-मार्दव निलभतारुषमुक्तिः तपः संयम-सत्य-निष्कपटतारूपशौचअकिंच । ब्रह्मचर्यलक्षणा दशविधसाधुधर्माभिधानाः करिणः पट्टगजेन्द्रा बिद्यन्ते । पुनर्येषां पावें संनिघाने सदा निरन्तरं नवद्वयमिता नवानां नवसंख्यानां द्वयं युगलमेतावता अष्टादश तेन मिताः प्रमाणीकृताः । 'नवद्वयद्वीपपृथग्जयश्रियाम्' इति नैषधे । सहस्त्रा दशशतानि । सहस्रशब्दः पुंक्लोबलिङ्गे । शीलाङ्गा इत्याख्या नाम येषां तादृशा रथाः एतावता अष्टादशसहस्राः शीलाङ्गरथा वर्तन्ते । पुनर्येषां मुनीनां साधूनां सप्तविंशतिसं. ख्याका गुणाः । यथा-षण्णां प्राणातिपात-मृषावाद-अदत्तादान-मैथुन-परिग्रह रात्रिभोजन विरमणलक्षणानां व्रतानां परिपालनम, तथा षण्णां पृथ्बी-जल-अनल-वायु-वनस्पति-त्रासलक्षणानां कायानां रक्षा, तथा पञ्चानां श्रवण नयन-घ्राण-रसन-स्पर्शननाम्नामिन्द्रियाणां निग्रहः, निर्लोभता, क्षमा, भावसत्यक्रिया, विशुद्धिता, मनोवचनकायानां जयः, संयमयोगयुक्ता, शीतातपादिवेदनासहनम, उपसर्गसहनं चेति मुक्तास्वर्ण मणिगणाः मुक्तिककाञ्चन रत्ननिकरा आसते । पुनर्येषामदभुता आश्चर्यकारिण्यः द्वादशसंख्याका भावनाः अनित्य-अ. शरणसंसार-एकत्व-अन्यत्व-अशौच-आश्रव-संवर-कर्म-निर्जर-अधर्मस्वाख्यातता-बोधिलक्षणाः । अथवा पञ्चानां महाव्रतानां पञ्चपञ्चसंख्याभिः पञ्चविंशतिर्भावनाः । यथा मनोगुप्ति-दयासमिति-आदाननिक्षेणासमिति-एषणासमिति-दृष्टान्नपानग्रहणम् एताः प्रथमव्रतस्य पञ्च भावनाः, तथा हास्यविरति लोभविरति-भयप्रत्याख्यान-क्रोधप्रत्याख्यान-आलोच्यभाषणम पता द्वितीयव्रतस्य पञ्च भावनाः । आलोच्यावग्रहेयाञ्चा, अभीक्ष्णावग्नहयाञ्चा, देशकालापेक्षा एतावन्मात्रावग्नहयाचना, सामानधार्मिकेभ्यः सकाशादवग्रहयाचनम्, अनुज्ञापितान्नपानभोगः, एतास्तृतीयव्रतस्य पञ्च भावनाः । स्त्रीषण्ढपशुमद्वेश्मस्त्रीभुक्तासनकुङ्मान्तरत्य. जनम्, सरागस्त्रीकथाविवर्जनम्, पूर्वक्रीडातभुक्त्यादिस्मृतिनिषेधनम्, स्त्रीणां रम्याङ्गावयवावलोकनस्वाङ्गस्नानाद्वर्तनादिसंस्कारनिराकारणम्, प्रणीतगलत्स्नेहबिन्दुकातिरसोन्मादकद्रव्यबहुलान्नपानपरिभोगनिवारणम् एताश्चतुर्थव्रतस्य पञ्च भावनाः । मनोज्ञे शब्दे रागः