________________
सर्ग ११ श्लो ० १४८-१४९]
हीरसौभाग्यम्
२४३
बुधो विद्वान् । चन्द्राङ्गजश्च । तथा उशना भार्गवः कविः इति हैम्याम् । अथ चाय मुद्गत्वादसुरः असुराणा गुरुत्वाच्च कविवाग्यानमुचितमेव सरिः सुराणा गुरु सुराणामिति वचनाच्च सूरेः श्लेषोक्तीनां विशेषा अतिशया विद्यन्ते यस्यां सा लेचविशेषवती तादृशी बाचं भारती निपीप सादरं श्रुत्वा ॥
શ્લોકાર્થ કવિની વાણી જેવી, વિશિષ્ટ અર્થ પ્રકાશિત કરનારી કલેષયુક્ત ગુરૂમહારાજની વાણી સાંભળીને, ગુરૂની નિર્લોભતાથી સંતુષ્ટ બનેલા સાહિબખાને પિતાના મુખકમલમાં સરસવતીદેવીની સ્થાપના કરી, અર્થાત્ તે બેલ્યા. ૫ ૧૪૮ છે
याचा मे क्रियतां फलेग्रहिरसौ द्रोणिर्दुमाणामिव
प्रोनिद्रा मधुना स तुष्यति यथा पृथ्वीमहेन्द्रो मयि । इत्यावेद्य निवृत्तिमीयुषि पुराधीशे वशीन्द्रो गिरं
जग्राहोप्णऋतौ कृतव्यवसितौ मेघाम्वुधारामिव ॥ १४९ ॥
इत्यमुना पूर्वोक्तप्रकारेण आवेद्य कथयित्वा निवृत्तिनुपरममुपेयुषि मौनमासेदुषि पुराधीशे साहिबखाने सति सूरिहीरगुरुगिरं वाणी जग्राहोपादत्त । वभाषे इत्यर्थः । क इव । मेघ इव । यथा कृता निर्मिता व्यवसितिः स्वसमयोचितप्रबललूकातापपयः शोषप्रमुखा व्यापृतिर्येन तादृशे उष्णऋतौ निदाघसमये निवृत्ते सति जलधरः प्रावृषेण्यपयोधरः अम्बुधारां वारिवृष्टिं गृह्णाति । इति किमावेद्यं । हे गुरो, श्रीमता मे मम याचा प्रार्थना फलेपहिः सफला क्रियताम् । केनेव । मधुनेव । यथा वसन्तेन ऋतुना द्रुमाणां विविधजातितरूणां द्रोणिः श्रेणिः प्रोन्निद्रा विकसिता फलकलिता क्रियते । तथा यथा येन प्रकारेण स पृथिवीमहेन्द्रः अकब्बरसाहिम यि तुप्यति हृष्टचित्तो भविष्यति तथा विधीयताम् ॥
શ્લેકાર્થ
હે સ્વામિન, જેમ વસંતઋતુ વૃક્ષેની શ્રેણિને નવપલ્લવિત કરે છે તેમ મારી પ્રાર્થના ફલવતી બનાવે. જેથી અકબરબાદશાહ મારાપર સંતુષ્ટ થાય આ પ્રમાણે