________________
सौभाग्यम्
[ सर्ग ११ श्लो० १४३-१४५
पूर्णमित्यर्थः । हृदयं येषां तेषामार्द्रहृदां महात्मनां सतां साधूनां वा औचित्यं योग्यतां न द बिभ्रते । किंभूताः । हुताशाः कृशानव इव हेतिभिर्विविधायुधैर्वा लावलीभिश्च भीषणा भयानकाः अतिभीतिकारिणः । पुनः किंभूताः । रुद्रतया चण्डत्वेन अङ्किताः कलिताः । क इव । गिरीशा इव । यथा ईश्वरा रुद्राभिधानत्वेनान्विताः । यतः एकादश रुद्राः । 'रुद्रोड्डीशो वामदेवो वृषाङ्कः' इति हैम्याम् ।
२४०
શ્લેાકાથ
હે રાજનૂ, પ્રશાંત ચિત્તવાળા અને કરૂણા હૃદયવાળા મહાત્માઓને, પ્રચંડઆક્રુતિ ધારણ કરનારા અને અગ્નિ જેવા ભયંકર શસ્રો વહન કરનારા પદાતિએ ( સૈનિકે ) રૂદ્રોની જેમ રાખવા ઉચિત નથી. ॥ ૧૪૩ ।।
माद्यन्त्यष्टापदैः पृथ्वीकान्त कैतवजीविनः ।
सन्तः संयमसाम्राज्या न पुनर्नयचक्षुषः ॥ १४४ ॥
हे पृथ्वीकान्त भूभामिनीवल्लभ, कैतवेन दुरोदरेण जीवन्ति प्राणान्धारयन्तीति कतवजीविनेो द्यूतकाराः अष्टापदैः शारिफलैः द्यूतक्रीडोपकरणविशेषैः कृत्वा माध्यन्ति मदेन हृष्यन्ति । पुनः सन्तः साधवः अष्टापदैः स्वर्णैः कृत्वा न मदयुक्ता भवन्ति निर्ग्रन्थत्वान्निपरिग्रहत्वाच्च । किंभूताः । संयमस्य चारित्रस्य साम्नाज्यमैश्वर्य येषाम् । तथा नये नैगमादिसप्तभेदभिन्ने न्याये वा चक्षुर्दर्शनं येषां नय एव चक्षुर्येषां वा ॥
શ્લાકા
હે પૃથ્વીવલ્લભ, જુગારીઓ ‘અષ્ટાપદ’ એટલેકે સેાગડીઓથી ખૂશ થાય છે. પરંતુ સંયમ એજ જેમનુ સામ્રાજય છે અને ન્યાય—પ્રમાણિકતા એજ જેમની ચક્ષુ છે તેવા મહાત્માએ કદાપિ ‘અષ્ટાપદ' એટલે કે સુવર્ણથી હુ યુક્ત ખનતા
नथी. ॥ १४४ ॥
धामसाधिमभृतः कलयन्त्यः स्त्रीत्वमात्मनि पुनर्वनितावत् । त्यक्तगेहगृहिणीद्रविणानां प्रीणयन्ति न मनो मणिमालाः ।। १४५ ।।
हे नृप, त्यक्तानि कानि गेहानि मन्दिराणि गृहिण्यः स्त्रियः द्रविणानि धनानि येस्तेषां साधूनां मनश्चितं मणिमाला रत्नश्रेणयेो न प्रीणयन्ति न तोषयन्ति । किंभूतस्य । धात्रां