________________
सर्ग ११ श्लो ० १४२-१४३]
हीरसौभाग्यम्
२३९
हे पुराधीश राजनगरनायक, निवृण्वद्भिः निवृतिं सुखं मोक्षं च काङ्क्षद्भिः साधुभिः । 'निर्वणोमि नगतो वसुमत्यां स्वारसातलभवाहवशङ्की' इति नैषधे । 'निर्वृतिं न प्राप्नोमि' इति तदवृत्तिः । शताङ्गराशिः स्यन्दननिवहः । शतानि शतशः अङ्गानि उपसर्जनभूताः प्रकाराः क्लेशादयो येषु ते भवा जन्मानि तेषां गणः भधपरम्परा न काम्येत णाभिलष्येत । 'अङ्गमन्तिकगारयोः । उपसर्जनभृते स्यादभ्युपायप्रतीकयोः ॥' इत्यनेकार्थः । तथा 'गौणोपसर्जनापाग्राण्यप्रधाने' इति हैम्यामपि । किंभूतः । अक्षेण रथावयवविशेषण विलसन् शोभमानः । क इव । द्यूतकृदिव । यथा यूतकारः अक्षैः प्रासकैः ‘पासा' इति प्रसिद्धनामभिर्विशेषेण नक्तदिनं लसन् क्रीडन् रममाणो भवेत् । 'लस श्लेषक्रीडनयोः' इत्ययं धातुः । पुनः किंभृतः। अराः सन्त्यनयोः रथपादयोश्चक्रयोस्ते अरिणी रथाङ्गे ताभ्यां युक्तः कलितः । क इव । पिशुन इव यथा द्विजिह्नः खलः अरिभिर्युक्तो भवति । प्रायः खलानां बहवो वैरिणः स्युः । अथ वा अरित्वेन वैरिभावेन सर्वेषामपि शत्रुतया युक्तः । खलः खल जगतोऽपि शत्रुभूतो न कस्यापि मित्रमिति । यदुक्तम्-'मृगमीनसज्जनानां तणजलस तोषविहितवृत्तीनाम् । लुप्धकधीवरपिशुना निष्कारणवैरिणो जगति ॥” इति ॥
શ્લેકાર્થ
હે રાજનગર નાયક ! મુમુક્ષુ એવા સપુરૂષને રથસમૂહ કે જે “શતાંગરાશિ” કહેવાય છે, એટલે કે જેમાં સેંકડો પ્રકારની ભવપરંપરા રહેલી છે તેવા પ્રકારની શતાંગરાશિ (ર) કદાપિ ઈચ્છનીય નથી, કે જે રથ જુગારીની જેમ “અક્ષ” ને (રથને અવયવ) ધારણ કરે છે, જુગારી પણ “અક્ષ પાસાવડે નીરંતર ઘતક્રીડાસક્ત डाय छ, पणी, २५ "मरियुत" डाय छे, मरियुत या मारा। धारण ४२ छ, જેમ દૂજેને અરિ શત્રુ યુકત” હોય છે ? (પ્રાયઃ દૂજનને ઘણુ શત્રુઓ હેય છે, અથવા સ્વયં વિરભાવને ધારણ કરતા હોવાથી તેના કેઈ મિત્ર હેતા નથી. કહ્યું છે કે મૃગ, મત્સ્ય અને સજજન એ ત્રણે અનુક્રમે તૃણ, જલ અને સંતોષવૃત્તિવાળા હોય છે તે પણ શિકારી, મચ્છીમાર અને દુર્જન એ તેનાં નિષ્કારણ વૈરીએ डाय छे.) ॥ १४२॥
राजन्हुताशा इव हेतिभीषणाः पुनगिरीशा इव रुद्रताङ्किताः । शान्तात्मनामाईहृदां महात्मनां नौचित्यमेते दधते पदातयः ॥ १४३॥
हे राजन् भूपते एते दण्डभृच्चण्डाकृतयः पदातयः पादचारिणः शान्तः शमवानात्मा स्वरूपं येषां तेषां शान्तात्मनाम् । तथा आर्द्र यावजन्तुजातोपरी कृपया क्लिन्नम् ।