________________
२३४
हीरसौभाग्यम्
सर्ग ११ श्लो० १३४-१३५
वर्तन्ते । किंभूताः । मदेन करिकपोलस्थलनिर्गलदहलदानजलपानेन मुदिता हृष्टाः अत एव भ्रान्ताः परितो भ्रमणीकारिणो भृङ्गा भ्रमरा येषु ते । उत्प्रेक्ष्यते-कजलानेरञ्जनगिरेः सोदर्याः सहोदरा इव । श्यामतया तुङ्गतया वा भातर इव । पुनरेते श्रीपुरस्कृताश्चामरध्वजनन्दिघोषाधलंकृताः शताङ्गाः रथा विद्यन्ते । किंभूताः । उत्प्राबल्येन वायुवेगेन चलद्रथाङ्ग रथपादो यत्र । 'इण गतौ' इत्यस्य धातोः शतृप्रत्यये यत् इति निष्पद्यते । 'यद्दारुणदारणं प्रकुर्वाणम्' इति व्यासपष्टिके काव्ये । प्रयोगस्तु क्रियारत्नसमुच्चये । के इव । यदुपतय इव । यथा वासुदेवशाः उद्यद्दीप्यमान रथाङ्ग प्रतिभजप्रतिहत चक्न नामायुधविशेषो येषां तादृशाः स्युः । उत्प्रेक्ष्यन्ते-शताङ्गाः त्वष्टा विश्वकर्मणा देववार्धकिना स्वेनात्मना सृष्टा निर्मिता इव । पुनरेते श्रीमत्पुरस्तादूर्ध्वदमाः पत्तिव्रजाः पदातिप्रकरा जाप्रति सन्ति । 'सत्तायामस्त्यास्ते जागर्ति च विद्यते च ध्रियतेऽथ' इति क्रियाकलापे । उत्प्रेक्ष्यते-मूर्ति तनु दधतो बिभ्राणाः वीर इति नाम येषां तादृशाः पश्चमा रसा इव । अस्मिन्काव्ये संबोधनपदादो मे इत्यादेशोऽस्ति । स तु यद्यपि सारस्वतव्याकरणे 'संबोधनपदादग्रे न भवन्ति वसादयः' इत्युक्तत्वात्तदनुसारेण संबोध नपदादग्रे एते वसादय आदेशा न भवन्त्येव, तथाष्यन्यत्र क्वाप्यादेशा दृश्यन्ते । यथा वाक्यप्रकाशे-'मित्र ते मे मोदते मनः' इत्युक्तेः । तथा वैतालिककृतौ विक्रमादित्यस्तुतावपि-स्वच्छेऽन्तर्मानसेऽस्मिन्कथमवनिपते तेऽम्बुपानाभिलाष.' इत्युक्तत्वाच्च । अत्रापि स्वामिन्निति संबोधनादग्रे मे' इत्यादेशपदं प्रयुक्तं न दोषायेति ।।
શ્લેકાર્થ
હે સ્વામિન, મારી પાસે મને વેગી અશ્વો છે, તે જાણે સાક્ષાત દેહધારી પવન ન હેય ? વળી, મદજલના પાનમાં હર્ષિત બનેલા ભ્રમરે જેના પર પરિભ્રમણ કરી રહ્યાં છે, તેવા ગજેન્દ્રો છે, તે જાણે સાક્ષાત્ અંજનગિરિના સોંદરે ન હોય અને વાસુદેવના સુદર્શન ચક્ર જેવા જેનાં ચકો છે તેવા રથ મારી પાસે છે, તે જાણે દેના વાર્ષકિ (સુથાર) વડે બનાવેલા ન હોય ? તેમ જ હે સ્વામિન, મારી પાસે પાયદલ (સૈનિક)ને સમૂહ છે તે જાણે સાક્ષાત મૂર્તિમંત વીરરસ ન હોય ? ૧૩૪
स्वर्ण तदेतद्भवदङ्गचङ्गिमश्रीस्पर्धिशिक्षावितितीर्षवो रुषा । निक्षिप्य वह्नौ च घनैनिहत्य च्छिन्दन्ति टकैरिव यत्कलादाः ॥ १३५ ॥
हे गुरो; इदं श्चीमत्पुरो ढौकितं स्वर्ण काञ्चनं तत्प्रसिद्धखनीधवमास्ते । अथ वा तद्यत्संबन्धनिष्ठम् । तत्किभूतम् । यत्सुवर्ण भवतां श्रीमतामङ्गस्य वपुषश्चङ्गिमा चारुता