________________
सर्ग ११ श्लो० १३५-१३६]
हीरसौभाग्यम्
२३५
तस्य श्रिया लक्ष्म्या राजते । ,जिनवचनपद्धतिरुक्तिचङ्गिममालिनी' इति पद्मसुन्दरकृतमालवरागजिनध्रुवपदे । स्पर्धते इत्येवंशीलमत एव कारणात् शिक्षां ताडनादिदण्ड वितितीर्षवो दातुमिच्छव; कलादाः स्वर्णकाराः रुषा अनौचित्यकरणोद्भूतभूमकोपेनेव वह्नौ वैश्वानरे निक्षिप्य क्षेपयित्वा । च पुनर्घनैलॊहमयकुट्टनोपकरणैनिहत्य कुदृयित्वा टकैरायसतीक्ष्णमुखटङ्कनकैश्च छिन्दन्ति शकलीकुर्वन्तीव ।
લોકાર્થ
વળી હે સ્વામિન આપને ભેટરૂપે કરાયેલું સુવર્ણ, તે જાણે આપના કંચન વર્ષીય શરીરની સુંદરતા સાથે સ્પર્ધા કરે છે તે માટે સુવર્ણકારોએ (નીઓએ) તેને શિક્ષા આપવા માટે રોષથી અગ્નિમાં–નાખી ઘણવડે કુટયું ન હોય અને ટાંકણા વડે તેનું છેદન કર્યું ન હોય ? મે ૧૩૫
स्फूर्जज्ज्योतिर्जलदपथबद्वन्दमेतन्मणीनां
मुक्तापङ्क्तिस्ततिरिव सतां शुद्धिमत्तां वहन्ती ।
यानवाता नतिप शिबिकाद्या विमाना इवामी
वासांस्येतान्यपि सुमनसामंशुकानीव सन्ति ॥ १३६ ॥
हे व्रतिप व्रतिनः संयमिनः पाति रक्षयति पालयतीति व्रतिपस्तस्य संबोधनम् । एतत्प्रत्यक्ष ज्ञगज्ज्ञगिति कान्तिततिनिर्दलितान्धकारं मणीनां नानारत्नानां वृन्दं वर्तते किंभूतम् । स्फूर्जद्दीप्यमानं ज्योतिर्दीप्तिर्यस्य । किंवत् । जलदपथवत् । यथा जलदानां पन्था मागौं गगनम् । स्फूर्जन्ति झगज्झगिति कान्तिमन्ति ज्योतींषि ग्रहनक्षत्रतार यत्र तत् । पुनरेषां श्रीमल्लोचनगोचरसंचरिष्णुर्मौक्तिकमाला विद्यते । किं कुर्वन्ती । शुद्धिमत्तामतिशयेन निर्मलत्वं वहन्ती धारयन्ती । केव । सतां ततिरिव । उत्तमपङक्तिनिमलाशयतां वहते । निष्कलङ्कितां वा धत्ते । च पुनरिमे बहुजनवाह्याः शिबिका याप्ययानमाद्य प्रथमं येषु लोके पालखी' इति प्रसिद्धा । तत्तद्यानव्राताः सुखासनचकडोलाभिधानोपवेशनोचितासनसंघाता वर्तन्ते । उत्प्रेक्ष्यते-विमाना इव । विमानशब्दः पंकीबलिडे । यथा धनविधनविमानाः' इति लिङ्गानुशासने । पुनरेतानि श्रीमत्परिधानार्थमानीतानि वासांसि वस्त्राणि सन्ति । उत्प्रेक्ष्यते-सुमनसां देवानामंशुकानि देवदूष्यानीव ।।