________________
सर्ग ११ श्लो० १३३-१३४]
हीरसौभाग्यम्
२३३
हे प्रभो, तत्कारणात् मया विश्राण्यमानं तुभ्यं गुरवे दीयमानमिदं प्रत्यक्ष श्रीमत्पुरो ढौकितं सर्व वस्तुजातमाद्रियस्व स्वीकुरुथ । किमिव । स्वीयमिव । यथा जनैः आत्मीयमशेषवस्तुजातमङ्गोक्रियते । यत्तदोर्नित्याभिसंबन्धात् यत्कारणात् । साहिना पातिसाहिना श्रीमता स्वभुजोपार्जितदश दिक्चक्रलक्ष्मीवता अकब्बरनाम्ना अवनिभुजा भूमीभामिनीभोकूत्रा । पृथ्वीपालेनेत्यर्थः । इत्यमुना प्रकारेण आदिष्टं लेखद्वारा प्रसादितमास्ते । स्फुरन्माने लिपीकारितमस्तीत्यर्थः । इति किम् । श्रिया संयमलक्ष्म्या कीर्तीन्दि. रया च युक्ता ये सूरीणामाचार्याणामीश्वरा अणिमादिसिद्धिविविधलब्धिभाजो महत्तमा. स्तेषु सर्वोत्कृष्टत्वात् हीरोऽमूल्यवज्रमणिः । मुख्य इत्यर्थः । तादृशं हीरविजय सूरिं ममाभ्यास पार्श्व प्रापयेः सम्यक् समानादिप्रकारेण प्रेषयेः । किं कृत्वा । घुम्नानि सुवर्णरजतमाणकादीनि द्रव्याणि, स्यन्दना रथाः, वाजिनस्तुरगाः, वारणा हस्तिनः, तन्मुखे वदने वा आदौ यस्य तादृशं तत्कामितं सरिसमीहितं संपूर्य संपूर्णीकृत्य । वरिर्यन्मार्गयति तत्तदर्पयित्वा फतेपुरे मत्समीपे शीघ्र संप्रेषणीय इत्यर्थः ॥
रोथ
“હે પ્રભે, મારાવડે આપવા લાયક આ જે કંઈ પણ વસ્તુ છે તે આત્મીય જનની જેમ મારા પ્રત્યે અનુગ્રહ કરીને આપ ગ્રહણ કરે; કારણ કે અકબર બાદશાહે મને આદેશ કર્યો છે” કે “દ્રવ્ય, સુવર્ણ, રથ, અશ્વ કે હાથી આદિ જે કાંઈ આપને અભિષ્ટ હોય તે પૂર્ણ કરીને આચાર્યોમાં કોહિનૂર સમાન શ્રીહીરવિજ્યસૂરિને મારી पासे २५ मो.' ॥ १33 ॥
स्वामिन्मे गन्धवाहा इव घृततनवः स्वान्तवेगास्तुरङ्गाः
सोदर्याः कज्जलानेरिव मदमुदितभ्रान्तभृङ्गाः करीन्द्राः । न्वष्ट्रेव स्वेन सृष्टा यदुपतय इवोद्यद्रथाङ्गाः शताङ्गाः
पत्तिवाताश्च मूर्ति दधत इव रसा वीरनामान एते ॥ १३४ ॥
हे स्वामिन गुरो, मम मदीया एते श्रीमत्प्रत्यक्षलक्ष्यास्तुरङ्गाः अश्वाः सन्ति । किंभूताः । स्वान्तवन्भन इव त्वरितो वेगो येषाम् । उत्प्रेक्ष्यते-धृततनवः अङ्गीकृताङ्गाः गन्धवाहाः पवना इव । च पुनरेते दृग्गोचरा गर्जन्जलधारानुवादिनः करीन्द्राः कुञ्जरराजा
हि, सौ. ३०