________________
सर्ग ११ श्लो० १३०-१३१]
सौभाग्यम्
नीतम् । कस्मिन्सति । प्रेक्षया विलोकनेन, अथ वा प्रेक्षार्थं दर्शनार्थ प्रस्खलिताः कौतु कातिरेकात्स्थिरीभृताः अखिलाः समस्ता अम्बरचराः सिद्धगन्धर्व विद्याधर देवतादिका नभश्चारिणो निरन्तरगमनगामिनेा यत्र तादृशे क्षणे महोत्सवे प्रणीते अर्थात्पौर कृते सति ॥
શ્લાકા
જે મહાત્સવને જોવા માટે અત્યંત કૌતુકથી આકાશમાં સમસ્ત ગગનવિહારી દેવ દાનવ. ગાંધ` અને વિદ્યાધરા વગેરે સ્થિર થઈ ગયા હતા તેઓ, નાગરિકવૃન્દાદ્વારા અમદાવાદમાં પ્રવેશમહેાત્સવ કરાયે છતે, જેમ સંપ્રતિરાજા “સુહસ્તિ” નામના આચાય દેવને વિજ્ઞપ્તિ કરીને પેાતાના ભવનમાં લઈ ગયા હતા તેમ સાહિમખાન શ્રીહીરવિજયસૂરિને આગ્રહ પૂ વિજ્ઞપ્તિ કરીને પેાતાના ભવનેામાં લઈ
गयेो. ॥ १३० ॥
गैरम्बरचुम्बिभिर्विदधतं विघ्न विवस्वद्गतेः प्रासादं त्रिदशार्चयेव परमं प्रापय्य भूषाभरम् ।
२३१
भूभव हिरण्मयं प्रदलितप्रोन्मादिभाबद्विषा रम्योर्णायुमयं विनेयनिहितं तेनासनं शिश्रिये ॥ १३१ ॥
तेन सूरिणा रम्यं प्रशस्यमृर्णायुमयं कम्बलिकारूपमासन विष्टरः शिश्रिये भेजे । किंभूतमासनम् । विनेयेन शिष्येण निहितं स्थापितम् । आस्तीर्णमित्यर्थः । केनेव । भूभत्रैव । यथा भूपतिना विशिष्ट वस्तु नीयते अर्थात् स्वस्वामिने नीयते प्राप्यते इति । विनेयाः सुसेवकास्तैर्निहितं हिरण्मयं सौवर्णमासनं श्रीयते । किंभूतेन सूरिणा राज्ञा च । प्रदलिता हता प्रोन्मादिनो दुर्धरा भावा अन्तरङ्गाः, तथा प्रोन्मादी प्रकर्षेण उन्मत्तो भाव आशयः स्वभावो वा येषां तादृशो द्विषो वैरिणो येन श्रितम् । किं कृत्वा । त्रिदशस्य देवस्य अर्चया प्रतिमयेव । प्रासादं देवगृहं भूपतिनिकेतन च । 'प्रासादो देवभूपानाम्' इति हैम्याम् । परममतिशायिन भूषाभरं शोभासमुदयं प्रापय्यार्थादात्मनैव लम्भयित्वा । प्रापय्येति क्रियारत्नसमुच्चये । प्रासादं किं कुर्वन्तम् । अम्वरमाकाशं चुम्बत्यालिङ्गति स्वाग्रैः संघट्टयतीत्येवंशीलैः शृङ्गैगत्मीयशिखरैः कृत्वा विवस्वतः सूर्यगमनस्य विघ्नमन्तरायं दधतं कुर्वाणम् ॥ इति वरेर्भूपगृहागमनेोपवेशने ॥