________________
२२८
सौभाग्यम् [ सर्ग ११ श्लो० १२५-१२६
व्यराजन्त स्वःश्रेयसविहितये क्लृप्ततिलका व्यवस्यन्तः सिद्धिश्रियमिव वरीतु पुरनराः ।। १२५ ।।
मुमुक्षूणां संसारकारागारादात्मानं मोचयितुमिच्छूनां मुनीनां मध्ये क्षोणीन्द्रो राजा एतावता हीरनुरिस्तस्य क्रमकमलयोः पादारविन्दयोः भक्त्या प्रणमनं नमस्करणं तस्य क्रिया व्यापारकालस्तस्यामाश्लिष्यतो मिलतो लगत: पांसोरर्थात्पदाम्बुजरजसः प्रसरो विस्तारस्तेन विलसन्ति शोभमानानि भालफलकानि ललाटपट्टा येषां तादृशाः पुरनराः अहम्मदाबादश्राद्धाः व्यराजन्त बभासिरे । उत्प्रेक्ष्यते - सिद्धिश्रियं मुक्तिलक्ष्मीं वरीतुं परिणेतु व्यवस्यन्तः प्रगल्भमानाः सन्तः । स्वःश्रेयसविहितये कल्याणकृतये । रसिकायित. मानसैरिति पुरातनकाव्ये । क्लृप्तं रचित तिलकं यैस्तादृश्य इव । इति सुरेरकमिपुरसंमुखीकरणम् ||
શ્લાકા
મુમુક્ષુમહારાજા આચાર્ય શ્રીના ચરણકમલે નમસ્કાર કરવાથી જેઓના લલાટપટ ઉપર ચરણકમલની રજ લાગેલી છે તેવા નગરવાસીએ શેાભતા હતા. તે જાણે મુતિરૂપી લક્ષ્મીને વરવા માટે તૈયાર થયેલા નાગરિકાએ પોતાના કલ્યાણ માટે તિલક ધારણ કર્યાં ન હાય ? !! ૧૨૫ ॥
प्राणः श्रवणयोः श्रमणेन्दोरागमोऽकमिपुरोऽधिभ्रुवोऽथ । वह्निबीजविलसद्दलमालाशालिवारिजवतंसवदासीत् ॥ १२६ ॥
अथ सूरेः श्राद्धानां संमुखमहोत्सवभवनानन्तरं श्रमणेन्दोः यतिरजनिजानेरागमः पादावधारणमकमिपुरस्याहम्मदाबादस्य अधिभूः स्वामी । 'अधिपस्त्वीशानो नेता परिवृढोऽविभू:' इति हैम्याम् । साहिवखानस्तस्य श्रवणयेाः कर्णयोः प्राघुणोऽतिथिरासीत् भवति स्म । साहिबखानेन सरिसमागमनमाकर्णितमित्यर्थः । किंवत् । वह्निबीजस्य कनकस्य । 'कलधौत लोहोत्तमवह्निबीजान्यपि गारुडं गैरिकजातरूपे' इति हैम्याम् । विलसतां विकस्वरीभवतां दलानां पत्त्राणां मालया श्रेण्या शालते शोभते इत्येवंशीलस्य वारिजस्य पद्मस्य वतंसवत् । यथा हैमाम्बुजावतंसः श्रवणयेाः प्राघुणो भवेत् ॥