________________
२२६
हीरसौभाग्यम्
सर्ग ११ श्लो० १२१-१२२
विहायोङ्गणालिङ्गिगेहाग्रशृङ्गानिलालोलकेतुक्वणत्किकिणीभिः । पुरी प्रेक्ष्य सूरि किमायान्तमन्तर्भवत्प्रीतिरातन्तनीतीव गीतिम् ॥ १२१ ॥
आयान्तं स्घस्यान्तिकं समागच्छन्तं सूरिं हीरगुरु' प्रेक्ष्य व्यालोक्य अन्तमध्ये अर्थान्निजचित्ते भवन्त्युत्पद्यमाना प्रीतिः प्रमोदो यस्यास्तादृशी पुरी अहम्मदाबादाभिधाना नगरी । गीति गानमातन्तनीति अतिशयेन सृजतीव विस्तारयतीव वा । काभिः । विहायोङ्गणं गगनाजिरमालिङ्गन्त्याश्लिषन्तीत्येवंशीलानां गेहानां महेभ्यभवनानामग्राणि उपरितनानि शृङ्गाणि शिखराणि तेष्वनिलः पवनैरालोलाश्चञ्चला ये केतवो वैजयेन्त्यः पताकास्तेषां क्वणन्तीभिः शब्दायमानाभिः किंकिणीभिः क्षुद्रघण्टिकाभिः घुर्घरि काभिः कृत्वा ॥
કલેકાર્થ
શ્રીમંતના ગગનચુંબી મહેલના શિખર ઉપર રહેલી પવન પ્રેરિત ચંચલ ધ્વજાઓની રણકતી ઘુઘરીઓ દ્વારા, પિતાની પાસે પધારતા સૂરિશ્વરને જોઈ ને હૃદયમાં અત્યંત આનંદને ધારણ કરતી અમદાવાદ નગરી જાણે ગીત ગાતી ન હોય ? ! ૧૨૧ !
तुमुलैबन्दिवृन्दानां तूरस्वरकरम्वितैः । भूपरीरम्भकाम्भोदनि दैरिव निर्वभे ॥ १२२ ॥
बन्दिवृन्दानां मङ्गलपाठकप्रकराणां तुमुलैः कोलाहलैः बहुदानादानमनोरथैरुपर्युपरि पतता व्याकुलशब्दैनिर्बभे तस्मिन्नवसरे निप्तरां शुशुभे । किंभूतैः तुमुलैः । तुराणामनेकजातीयवादित्राणां स्वरैः शब्दैः करम्बितैः मिश्रीकृतैः । व्याप्तैरित्यर्थः । 'अक्षबीजवलयेन निबभे' इति रधौ । उत्प्रेक्ष्यते-भुवो भूमीन्दिराया भूमिभामिन्याः परीरम्भकस्य आलिङ्गनदायिनः अम्भोदस्य मेघस्य निहादैः गर्जारवैरिव ।
કલાકાથ અનેક પ્રકારના વાજિના સૂરોથી મિશ્ર મંગળપાઠકેના કેલાહલે શોભા પ્રાપ્ત કરી. તે જાણે ! ભ્રમિરૂપ ભામિનીને આલિંગન આપનારા મેઘ ગર્જારવ ન हाय १ ॥ १२२ ॥